________________
द्वादशकुलकम् ।
॥ ५२ ॥
हि भवे उत्कर्षतो वारद्वयमुपशमश्रेणिं करोति, समस्तेऽपि च भत्रे वारचतुष्टयं, यदि ह्येकदापि कृत्वा प्रवर्धमानपरिणाम एव स्यात् न द्वितीयवारमपि तां कुर्यात्, किं पुनर्वारचतुष्टयम् उपलक्षणं चैतत् तेन सम्यक्त्वचारित्रादिग्रहणमोक्षलक्षणाकर्षबहुत्वमपि, “तिह सहस्त्रपुहचं सयपुहत्तं च होइ विरईए। एगभवे आगरिसा एवइया हुंति नायवा ॥ १ ॥" इत्येवं रूपं प्रमादकृतमेव द्रष्टव्यं तस्मादलक्ष्यस्तत्रापि प्रमाद एव कारणमिति लक्ष्यते ||२२|| 'नानाभवेषु' अनेकजन्मसु 'प्राप्नोति' लभते, तत्सर्वमसंख्यातवारसम्यक्त्वादिप्रापणं, 'पापप्रसादविलसितं ' निन्दित विषयकषायादिविजृम्भितं तत्कार्यमित्यर्थ', विपक्षे प्रतिकूल तर्कमाह, 'इतरथा अन्यथा यदि प्रमादो नाभविष्यत् तदैकस्मिन्नपि भवे सर्वाणि सम्यक्त्वादीनि लब्ध्वा मोक्षम यास्यत्, यदसौ न गतस्तत्र प्रमाद एव हेतुरिति गाथार्थः ॥ २३ ॥
न केवलं प्रमादपरतन्त्राणां मोक्षाभावोऽपि तु संसारे प्रकृष्टदुःखप्राप्तिरेवेत्याह-तदेवं संसारातुलजलहिज्झे निवडिया, जिया बुडबुड्डासरिसमरणुष्पत्तिनडिया । दुरंतं अचंतं दुहमपरिमेयं निरुपमं भमंता विंदंते खरपवणखितो हठ इव ॥ २४ ॥
व्याख्या - तदेवमिति यतोऽसांव्यवहारिकाद्यवस्था आरभ्य मिथ्यात्वाद्युपहता एव तत् तस्मादेवमुकप्रकारेण जीवा अत्यन्तदुःखमेव विन्दन्त इति योगः, वेत्याह- 'संसार एवातुलो' निरुपमो 'जलधिः' समुद्रः- तन्मध्ये तद्गर्भे 'निपतिता' निमग्नाः
१ सम्यक्चसामायिकं श्रुतसामायिकं देशविहति सामायिकमेषां सहस्त्रयक्त्वं चति ॥
104
उख
पचमं
कुलकम् ।
॥ ५२ ॥