________________
नाणाभवेसु पावइ तं पापमायविलसियं सयलं । इहरा एगभत्रेण वि लहिउं सवाई जाय सिवं ||२३||
व्याख्या- न केवलमाहारकादीनां चतुर्गतिप्राप्तिरेव प्रमादफलं यच्चैकोऽपि जीवो असंख्यातवारान् सम्यक्त्वादीन् प्राप्नोति, तदपि प्रमादविलसितमिति योगः, असंख्यातानां ह्येकैकवारमपि सम्यक्त्वादिप्राप्तावसंख्यातवारं तल्लाभो भवत्येव तद्व्यवच्छेदार्थमाह, एकोऽपि अद्वितीयोऽपि जीवोऽसंख्यातवारं संख्यातिकान्तवासनिह जगति सम्यक्स्वदेशाविरती प्राप्नोति, कथमिति चेद्यतः - " सम्प्रत्तम्मि य लडे पलियपुत्त्रेण सावओ होजा । चरणोवसमखयाणं सागरसंखंतरा हुति ॥ १ ॥ तदत्र यदि पल्योपमपृथक्लं द्व्यादिनवपर्यन्तं प्रतिपत्य प्रतिपत्य पुनः पुनः सम्यक्त्वलाभे क्रमेण वेदयन् पूरयति, | तदास्य प्रभूतवारान् सम्यक्त्वलाभो भवति, अथवा 'तित्थयर-पवयण सुर्य मित्यादि आशातनाप्राचुर्येणापार्द्धपुङ्गलं पूरयति, | तदापि अनेकेषु भवेषु प्रभूतवारान् अन्तरान्तरा सम्यक्त्वलाभो भवति, एवं देश विरतेरपि तथा विरतिं सर्वविरति-मष्टधा अष्टासु भवेषु अष्टवारं, यद्यपि 'आराहगो य जीवो सत्तभवेहिं सिज्झई नियमा', इत्यत्र सम्यगाराधनायुक्ता एवाष्टौ दर्शिताः - तथापि अलक्ष्यः कोऽपि अतिसूक्ष्मः प्रमादः द्रष्टव्यः, कथमन्यथा क्षपकश्रेणेरलाभ इति । तथा अनन्तानामनम्तानुबन्धिनां कपायाणामुद्बलनं च करणविशेषेण शुभाध्यवसाय रूपेणोन्मोचनं सत्तातोऽप्यपसारणं, तदपि अष्टवारं, यदि ह्येकदोत्सारणे प्रवर्द्धमानाध्यवसाय एव स्यात्, ततो न पुनर्वभीयाद् बन्धाभावे कथमष्टवारानुद्बलयेद्, ततस्तत्रापि सूक्ष्मः प्रमाद एत्र कारणत्वेनावसीयते, तथा 'चतुर्द्धा' वारचतुष्टयं मोहशममुपशमश्रेण्यां सर्वथा मोहोपशमः, एकत्र
103