SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ नाणाभवेसु पावइ तं पापमायविलसियं सयलं । इहरा एगभत्रेण वि लहिउं सवाई जाय सिवं ||२३|| व्याख्या- न केवलमाहारकादीनां चतुर्गतिप्राप्तिरेव प्रमादफलं यच्चैकोऽपि जीवो असंख्यातवारान् सम्यक्त्वादीन् प्राप्नोति, तदपि प्रमादविलसितमिति योगः, असंख्यातानां ह्येकैकवारमपि सम्यक्त्वादिप्राप्तावसंख्यातवारं तल्लाभो भवत्येव तद्व्यवच्छेदार्थमाह, एकोऽपि अद्वितीयोऽपि जीवोऽसंख्यातवारं संख्यातिकान्तवासनिह जगति सम्यक्स्वदेशाविरती प्राप्नोति, कथमिति चेद्यतः - " सम्प्रत्तम्मि य लडे पलियपुत्त्रेण सावओ होजा । चरणोवसमखयाणं सागरसंखंतरा हुति ॥ १ ॥ तदत्र यदि पल्योपमपृथक्लं द्व्यादिनवपर्यन्तं प्रतिपत्य प्रतिपत्य पुनः पुनः सम्यक्त्वलाभे क्रमेण वेदयन् पूरयति, | तदास्य प्रभूतवारान् सम्यक्त्वलाभो भवति, अथवा 'तित्थयर-पवयण सुर्य मित्यादि आशातनाप्राचुर्येणापार्द्धपुङ्गलं पूरयति, | तदापि अनेकेषु भवेषु प्रभूतवारान् अन्तरान्तरा सम्यक्त्वलाभो भवति, एवं देश विरतेरपि तथा विरतिं सर्वविरति-मष्टधा अष्टासु भवेषु अष्टवारं, यद्यपि 'आराहगो य जीवो सत्तभवेहिं सिज्झई नियमा', इत्यत्र सम्यगाराधनायुक्ता एवाष्टौ दर्शिताः - तथापि अलक्ष्यः कोऽपि अतिसूक्ष्मः प्रमादः द्रष्टव्यः, कथमन्यथा क्षपकश्रेणेरलाभ इति । तथा अनन्तानामनम्तानुबन्धिनां कपायाणामुद्बलनं च करणविशेषेण शुभाध्यवसाय रूपेणोन्मोचनं सत्तातोऽप्यपसारणं, तदपि अष्टवारं, यदि ह्येकदोत्सारणे प्रवर्द्धमानाध्यवसाय एव स्यात्, ततो न पुनर्वभीयाद् बन्धाभावे कथमष्टवारानुद्बलयेद्, ततस्तत्रापि सूक्ष्मः प्रमाद एत्र कारणत्वेनावसीयते, तथा 'चतुर्द्धा' वारचतुष्टयं मोहशममुपशमश्रेण्यां सर्वथा मोहोपशमः, एकत्र 103
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy