SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ द्रव्याणि मनासीत्युच्यन्ते, तेषां मनसा पर्यायाश्चिन्तनानुगुणपरिणामाः-तेषु ज्ञानं मनःपर्यायज्ञानं, तञ्च द्विधा ऋजुमति विपुलमति चेति, तत्र ऋज्वी अल्पतरविशेषविषयतया मुग्धा मतिर्यस्य तत्तथा, तथा विपुला बहुतरविशेषविषयतया पट्टी मतिर्यस्य तत्तथा, तत्र ऋजुमतेः पञ्चचत्वारिंशद्योजनलक्षप्रमाणोऽर्धतृतीयाङ्गलहीनो मनुष्यलोका क्षेत्रतो विषयो, विपुलमतेस्तु स एव संपूणों निर्मलतरश्च, कालतस्तु एतावति क्षेत्रे भूतभाविनोः पल्योपमासंख्येयभागयो-रतीतानागतानि संज्ञिमनोरूपाणि मूर्तद्रव्याणीति, मनःपर्यायज्ञानिनोऽपि भीमो भीमसेन इतिवदेकदेशरूपेण मनोज्ञानिन इत्युकास्तेऽपि, तथा सर्वः समस्तो अष्टाविंशतिप्रकृतिरूपोऽप्युपशान्तः सर्वधा कार्यकरणाक्षमः संपन्नो मोहो येषां ते तथा तेऽपि, सदुपशम-18 विधिश्चैवं चत्वारोऽनन्तानुबन्धिनो मिथ्यात्वमिश्रसम्यक्त्वानि च त्रीण्येषं सप्तप्रकृतीनामेते अविरतदेशविरतभमत्ताप्रमचा | यथायोगमुपशमकाः, अपूर्वकरणस्तु नोपशमकः, किन्तु तद्योग्य एव, अनिवृत्तिकरणे च शेकविंशतिमोहनीयप्रकृतीनामन्त रकरणं कृत्वा ततो नपुंसकवेदमुपशमयति, तस्मिनुपशान्तेऽष्टी, तत उक्तप्रकारेणान्तर्मुहर्तेन स्त्रीवेदमुपशमयति, ततो नव, तितोऽन्तर्मुहूर्तेन कालेन हास्यादिषट्कमुषशमयति, तस्मिन्नुपशान्ते पञ्चदश, हास्यादिषट्कोपशमनानन्तरं समयोनावलि काद्विकमात्रेण कालेन पुरुषवेदं सकलमपि उपशमयति, तस्मिन्नुपशान्ते पोडश, ततोऽनन्तरमप्रत्याख्यानप्रत्याख्याना. परणक्रोधायुपशमयति, तयोरुपशान्तयोरष्टादश, ततः समयोनावलिकाद्विकेन कालेन संज्वलनक्रोधमुपशमयति तस्मिन्नुप. शमिते एकोनविंशतिः, ततोऽनन्तरमप्रत्याख्यानप्रत्याख्यानावरणौ च मानौ उपशान्ती, तदुपशान्ती चैकविंशतिः, ततः समयोनावलिकादिकेन कालेन संज्वलनमाने उपशमिते द्वाविंशतिरुपशमिता भवन्ति, ततोऽप्रत्याख्यानमत्याख्यानावरणे 101
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy