________________
पश्चेति पञ्चसंख्यानि गाथावृत्तानि प्राकृतेन भाषाविशेषेण समानि तुल्यानि समसंस्कृतानीत्यर्थः, इति अचान्तरवा क्यार्थः । सुगुरुलामे तद् भविष्यतीत्याशंक्य तत्रापि तदभावमाह -
सुगुरुमवि लहिय कह कहवि तुडिवसा सुणिय मुणिय तवयणं । मिच्छत्तासत्तोदग्गकुग्गहा तं न मन्नंति १८
व्याख्या- 'सुगुरुमपि' प्रसिद्धस्वरूपं लब्ध्वा 'कथं कथमपि' कृच्छ्रेण 'तुटिवशाद्' दैववशात् 'तद्वचः' सुगुरुवचनं 'श्रुत्वा' ज्ञात्वा च तद्वचनं 'न मन्यन्ते' चैव श्रदधते कीदृशाः सन्त इत्याह- 'मिथ्यात्वासत्ता' मोहनीयमूलप्रकृतिविशे-' पालिष्टा अत एवोदग्रकुग्रहा उद्भटकदभिनिवेशा:- ततो मिथ्यात्वासक्ताश्चेत्यादि कर्मधारयः, अथवा मिथ्यात्वेनासक्ता उदयकुग्रहा येपामिति बहुब्रीहिः, ततः सम्यक्त्वाभावे क सुखमिति भाव इति गाथार्थः ॥ १८ ॥
सम्यक्त्वे सति तद्भविष्यतीत्येतदपि नेत्याह-
अह सद्दहंति वि तयावरणखओवसमजोगओ कहवि । चरणावरणाओ न संजमुज्जमं तहवि कुवंति ॥१९॥
व्याख्या- 'अथ' इति आरम्भे श्रदधतेऽपि सुगुरुवचनं केचित् कुत इत्याह-तस्य सम्यत्वस्य आवरणम् आच्छादनं मिध्यात्वानन्तानुबन्धिकषायादिकं तस्य 'क्षयः' सर्वथा ध्वंसः, उपशमो विष्कम्भितोदयत्वं ततश्च उदयप्राप्तस्य क्षयोऽनुदितस्य चोपशमः, ततस्तदावरणस्य क्षयोपशमस्तदावरणक्षयोपशमः - तद्योगात् तत्सम्बन्धात् कथमपि कृच्छ्रेण श्रदधत इति सम्यक्तवं लभन्त इति भावः । तच्च पूर्वस्मादोपशमिकाद् विलक्षणं क्षायोपशमिकमित्युच्यते, तदुक्तम्- "मिच्छत्तं नं उइनं तं
99