________________
एवौपशमिकं सम्यक्त्वमाप्नोति मिथ्यात्वदलिकवेदनाभावाद् , यथाहि-वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाष्य विध्यायति तथा मिथ्यात्ववेदनाग्नि-रन्तरकरणमवाप्य विध्यायति शून्यान्तरालप्राप्ती, तदुक्तं श्रावकमज्ञप्तौ-"ऊसरदेस
दविल्लयं व विज्झायइ वणदवो पप्प । इय मित्थस्स अणुदए उवसमसम्म लहइ जीवो ॥१॥" ॥८॥ ततोऽन्तरकरणाहै नन्तरं तेनैवानिवृत्ति करणेन समुल्लसितप्रचुरतरदुनिधारवीर्यप्रसरा औपशमिकसम्यक्त्वं प्राप्नुवन्ति जीवा इति योगः, कीट
शमित्याह-'भवसागरतरणे' संसारसमुद्रपारगमने 'तरीसमें' द्रोणीकल्पं, तथा 'असमसौख्यमोक्षकरं' निरुपमानन्दनिर्वृतिविधायि, अवश्यमेतस्मिन्नेकदाऽपि लब्धे पुनः कथंचित् प्रतिपतितेऽपि अपार्द्रपुद्गलावतमध्ये एव मोक्षप्राप्तेः, 'प्रामुवन्ति' लभन्ते, उपशमेन मिथ्यात्वोदयविष्कम्भणलक्षणेन निवृत्तमौपशामिकं केवलविशुद्धभावरूपं न तु क्षायोपशमिकवत् विशुद्धमिथ्यात्वदलिकमयं, कियन्तं कालमित्याह-अन्तर्मुहूर्ताद्धा अद्धा कालः ततोऽन्तर्मुहुर्तप्रमाणमिति गाथापचकार्थः॥९॥
एवं कृच्छ्रेण प्राप्तमपि सम्यक्त्वं केचिद् वमन्तीत्याह18/पुण केइ कम्मपरिणइवसेण अइसुंदरं पि सम्मत्तं । संपत्तं पि अजोग्गा चिंतामणिमिव विमुंचन्ति १०18
व्याख्या-एवं कृच्छ्रसंप्राधमपि सम्यक्त्वं पुनर्भूयोऽपि केचिद् अयोग्या अपुण्याः, कुतो वमन्तीत्याह-'कर्मपरिणतिवशेन' अतितीव्रकपायादिपरिपाकायत्तत्वेन, 'अतिसुन्दरमपि' समस्तार्थप्रसाधकत्वेन कल्पतरोरपि मनोज्ञं, 'चिन्तामणिमिव' इत्युपमान, यथा अत्यन्तदुरापमपि चिन्तारकं कुतोऽपि देवताप्रसादादिना लब्धमपि निःपुण्यास्त्यजन्ति, तद्वदिदमपि विमुञ्च
93