SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ एवौपशमिकं सम्यक्त्वमाप्नोति मिथ्यात्वदलिकवेदनाभावाद् , यथाहि-वनदावानलः पूर्वदग्धेन्धनमूषरं वा देशमवाष्य विध्यायति तथा मिथ्यात्ववेदनाग्नि-रन्तरकरणमवाप्य विध्यायति शून्यान्तरालप्राप्ती, तदुक्तं श्रावकमज्ञप्तौ-"ऊसरदेस दविल्लयं व विज्झायइ वणदवो पप्प । इय मित्थस्स अणुदए उवसमसम्म लहइ जीवो ॥१॥" ॥८॥ ततोऽन्तरकरणाहै नन्तरं तेनैवानिवृत्ति करणेन समुल्लसितप्रचुरतरदुनिधारवीर्यप्रसरा औपशमिकसम्यक्त्वं प्राप्नुवन्ति जीवा इति योगः, कीट शमित्याह-'भवसागरतरणे' संसारसमुद्रपारगमने 'तरीसमें' द्रोणीकल्पं, तथा 'असमसौख्यमोक्षकरं' निरुपमानन्दनिर्वृतिविधायि, अवश्यमेतस्मिन्नेकदाऽपि लब्धे पुनः कथंचित् प्रतिपतितेऽपि अपार्द्रपुद्गलावतमध्ये एव मोक्षप्राप्तेः, 'प्रामुवन्ति' लभन्ते, उपशमेन मिथ्यात्वोदयविष्कम्भणलक्षणेन निवृत्तमौपशामिकं केवलविशुद्धभावरूपं न तु क्षायोपशमिकवत् विशुद्धमिथ्यात्वदलिकमयं, कियन्तं कालमित्याह-अन्तर्मुहूर्ताद्धा अद्धा कालः ततोऽन्तर्मुहुर्तप्रमाणमिति गाथापचकार्थः॥९॥ एवं कृच्छ्रेण प्राप्तमपि सम्यक्त्वं केचिद् वमन्तीत्याह18/पुण केइ कम्मपरिणइवसेण अइसुंदरं पि सम्मत्तं । संपत्तं पि अजोग्गा चिंतामणिमिव विमुंचन्ति १०18 व्याख्या-एवं कृच्छ्रसंप्राधमपि सम्यक्त्वं पुनर्भूयोऽपि केचिद् अयोग्या अपुण्याः, कुतो वमन्तीत्याह-'कर्मपरिणतिवशेन' अतितीव्रकपायादिपरिपाकायत्तत्वेन, 'अतिसुन्दरमपि' समस्तार्थप्रसाधकत्वेन कल्पतरोरपि मनोज्ञं, 'चिन्तामणिमिव' इत्युपमान, यथा अत्यन्तदुरापमपि चिन्तारकं कुतोऽपि देवताप्रसादादिना लब्धमपि निःपुण्यास्त्यजन्ति, तद्वदिदमपि विमुञ्च 93
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy