________________
C%
कोय ते, 'अन्ये तु' अपरे पुनः केचित् सुकृतकर्माणः, अपूर्वमनादौ संसारे कदाचिदपि एतावन्तं कालमनुत्पन्नमीदशश)कर-II पञ्चम करावणमध्यवसायविशेषमासाद्य तेन ॥ ७ ॥'घनानि' निविडानि बन्धनविशेषाद्यानि कर्माणि ज्ञानावरणादीनि तेषां 'परिणतिः कुलकम् ।
परिपाक-स्तथाविधमहासंक्लिष्टाध्यवसायरूपग्रन्धिलक्षणवार्यनिष्पातका तया गिर्दो पनकर्मपरिणतिमय-स्तं चिररूढगूढ-1 दृढदवरकादिग्रन्धिस्तत्र 'चिरं' बहुकालं रूढ उत्पन्नः स्तोककालोचो हि सुमोचः स्यात्, तत्रापि गूढोऽलक्ष्यरूपतया कृतोऽस्ति दृद्धोऽत्यन्तनिविड एवंविधो हि ग्रन्थिः प्रायो दुर्मोच एव भवतीति एतदर्थख्यापनार्थानि बहनि विशेषणानि, ततश्चैवंविधग्रन्थितुल्यत्वात् चिररूढगूढदृढग्रन्थिः तं 'भित्त्या' विदार्य, अत्र च यद्यपि ग्रन्थेः कर्ममयत्वं सामान्येनैवोक्तं, तथापि घातिकर्ममयत्वं योद्धव्यं, तथा चोच्यते-“स ज्ञानदर्शनावरणकारणो मोहनीयसंजनितः । विततान्तरायहेत-प्रन्थि-रयं दुर्भिदो भवति ॥ १॥" एनं च प्रन्थिप्रदेशं यावदभच्या अपि आयान्ति अनेकशः तत्र चागताना देशविरतिसर्वविरतिलाभो द्रव्यतोऽपि भवति, एतद् द्वितीयकरणकार्य, ग्रन्थिभेदानन्तरं प मिथ्यात्वमोहनीयकर्मस्थिते-रन्तर्मुहुर्तमुदयक्षणादुपय॑तिक्रम्यापूर्वकरणानिवृत्तिकरणलक्षणविशुद्धिजनितसामोऽन्तर्मुहूर्त्तकालप्रमाणं तत्प्रदेशवेद्यदलिकामावरूपमन्तरकरणं करोति, तदुक्तं सूत्रकृता-मिथ्यात्वस्य मिथ्यात्वमोहनीयस्थितेरन्तरकरणं द्विखण्डतारूप कृत्वानिवृत्तिकरणेन विशुद्धतरेण तृतीयकरणेन, एतस्मिंश्चान्तरकरणे कृते तस्य मिथ्यात्वमोहनीयस्य कर्मणः स्थितिया भवति, अन्तरकरणादधस्तनी प्रथमस्थिति-रन्तमुहर्तमात्रा, तस्मादेवोपरितनी शेषा द्वितीया स्थितिरिति, स्थापना धेयं, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिरेव, अन्तर्मुहूर्तेन पुनस्तस्यामपगतायामन्तरकरणप्रथमसमये
1
ECAR