________________
AR
सपरिणामो ॥ ३॥ एवं च स्थिते अथेति पूर्वोक्तयुत्त्याऽनन्तसंसारपरिभ्रमणानन्तरं, गिरिसरितः पर्वतनद्या अतिवेगवाहिन्याः पाषाणौघनिचितायाः कश्चिदुपलस्त्रिकोणादिरूपः स च तत्र पाषाणान्तरैघृष्यमाणः कथंचिद् वृत्तत्व कोमलत्यं च यथा लभते, एवमनन्तसंसारे शीनवातादिभिर्नारकादिवेदनाभिश्चाकामनारूपश्च यत् कर्मनिर्जरणामेष गिरिसरिदुपलन्यायो दृष्टान्तः ततः, आदिशब्दात् पल्लकादिदृष्टान्तग्रहः, तत्रानामोगनिर्वर्तितेन यथाप्रवृत्तकरणेनेति, यथा येन प्रकारेण अनादौ संसारे प्रवृत्त कर्मक्षपणाय सव्यापारमभूत् तच तत्करणं चाध्यवसायविशेष-सेन, विशुद्धतरभावाः शुभतरपरिणामभाजो भवन्ति, कीदृशाः सन्तः? 'चतुर्गतिगता अपि' अनेन चतसृष्वपि गतिषु सम्यक्त्वावाप्तियोग्यता दर्शिता, अधवा चतसृष्वपि गतिषु गिरिसरिदुपलन्यायेन दुःखमनुभवन्त इति 'बहुतमकालेन' प्रभूतपुद्गलपरावर्त्तानन्तरमन्तिमपु-18 इलपरावर्ते विशुद्धतरभावाः सन्तः॥५॥ यथासंभवं विंशतिः सागरोपमकोटीकोव्यः स्थितिर्ययोः कर्मणो नामगोत्रयोस्ते चिंशके, एवं त्रिंशत्सागरोपमकोटाकोव्यः स्थितिर्येणं ज्ञानदर्शनावरणान्तरायवेदनीयानां तानि त्रिंशकानि, मोहश्च सप्ततिसागरोपमकोटीकोटीप्रमाणो भिन्न एव, ततश्च क्रमशो यथासंख्यं विशकयोरेकोनविंशतिं त्रिंशकानां च चतुर्णामेकोनत्रिंशतं, मोहस्य तु एकोनसप्तति, ततो द्वन्दः, 'सलिलनिधयः' सागरास्तेषां कोटीकोटीः क्षपयित्वा इत्यग्रेसनगाथापदेन योगः ॥६॥ 'ठिइसंतमिति', माकृतत्वात् सत्ता स्थिता यावदेका सागरोपमकोटीकोटिः सापि पल्योपमासंख्येयभागेन न्यूना भियते । इति कर्तरि प्रयोगोऽवतिष्ठते, एतत्पर्यन्तं सर्व प्रथमकरणकार्य, ता इति सावत्, तपान्तरे प्रन्,ि वक्ष्यमाणरूपं प्राप्य केचिद् मन्दपुण्याः वलन्तेऽपि व्यावर्तन्तेऽर्थात् शुभतराध्यवसायाद, न ततः शुभतरोअध्यवसायः प्रवर्द्धवेऽपि तु भन्दा