________________
25
3-
यंतो बहुसो अणंतसंसारिओ होइ॥१॥" त एवं विधाः पुनर्भूयोऽपि 'गुणितकर्माणों भूत्वा संपद्य गुणितानीव गुणितानि अतिप्रचुरत्वं प्राप्तानि कर्माणि मोहनीयादीनि यैस्ते तथा, कुतः? यतः पापकर्माणस्तीर्थकराधाशातनादिभिरेव अशुभतरप्रकृतिबन्धकाः सन्तोऽतुलभरं निरुपमप्राग्भार-मर्थादशुभकर्मणामेव, अथ पापकर्मणामतुलभरः पापकर्मातुलभरः तमिति समस्तं पदं कीदृशमित्याह-'अनिवारं' सर्वधाऽनुभवमन्तरेण निषेधुमशक्यं, 'लान्ति' गृह्णन्ति उपार्जयन्तीत्यर्थः, ततो गुणितकर्मत्वोपादानानन्तरमनन्तवारमिति प्रसिद्धमेव, गुणितकर्मस्वरूपं चैवं बोद्धव्यं-यो जीवो बादरपृथिवीकायि(कोत्वेन उत्पद्य त्रसकायोत्कृष्टस्थित्या वर्षपूर्वकोटिपृथक्त्वाभ्यधिकद्विसहस्रसागरोपमलक्षणया न्यूनां सप्ततिसागरोपमकोटीकोटिप्रमाणां पुनः पुनः पृथिवीकायिकभवेष्वेव जघन्योत्कृष्टायुरतिवाहनयुतामुत्कृष्टयोगस्थाने यूत्कृष्टकापायिकस्थानेष्वपि वर्चिवा पर्याप्तापर्याप्तकतया यथासंख्य बहुषु स्तोकेषु च भवेषु परिभ्रम्य ततो निर्गच्छति, इह च शेषैकेन्द्रियापेक्षया बादरपृथिवीकायस्य प्रभूतकर्मपुद्गलोपादानं भवति, तधास्वाभाब्यात् , तेनात्र ग्रहणं, निर्गत्य च बादरपृथिवीकायिकेभ्यस्खसेम्वपि द्वीन्द्रियत्रीन्द्रियादिष्वेवमेव जघन्योत्कृष्टायुःसम्बन्धेन अत्युत्कृष्टयोगस्थानकायस्थानेष्वपि पूर्ववत् परिधम्य परिभ्राम्य (भ्रम्यत) तश्च त्रसेषु यावतो वारान् सप्तमनरकपृथिवीगमनयोग्यता भवति तावतो वारान् तासु गच्छति, एवं सर्वत्र यादरत्रसकायिकेष्वपि प्रभूतं कालं पर्यटति, तदुक्तम्-"जो बायरतसकालेणूणं कम्मट्टिइंतु पुढवीए । वायरपजत्तापजत्तगदीहेयरद्धासु ॥ १॥ जोगकसा उमस्सो बहुसो नितमवि आउबंधं च ॥” इति संक्षेपतो गुणितकर्मजीवस्वरूपं बोद्धन्यं, विस्तरस्तु कर्मप्रकृतिसूत्राद् वृत्तेश्वावधारणीयमिति गाधार्थः॥ ४॥
89