SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कश्चित् काल - स्ततश्च तेनैतस्मात् कारणद्वयात् संव्यवहरणं संव्यवहारः पृथिवी कायिकत्वादिना प्रकारेण ज्ञानं व्यपदेशश्च संव्यवहारः प्रयोजनमेषाम् इति "इकणि” सांव्यवहारिका स्तद् भावस्तम् । केचिदल्पा मनाकुशुभतर कर्मवशात् 'माप्नुवन्ति' लभन्ते तत्रापि चेति एतत्पदमये योजनीयमिति गाधार्थः ॥ २ ॥ सांव्यवहारिकत्वेऽपि न सुखिन इत्याह होउं भूजलतेउवाउसु पुढो अस्सलउस्सांप्पणी, ता णंता उ तरूसु सागरसए वीसं तसत्ते हिए । गाढारूढपरूढमोहमहिमायत्ता दुहत्ता इमे, जंतू जंति इहासमंजसमहो संसारचक्के चिरं ॥ ३ ॥ व्याख्या- तत्रापि सांव्यवहारिकत्वाभेऽपि 'भूत्वा' समुत्पद्य 'भूः' पृथिवी 'जल' तोयं तेजोऽग्निर्वायुर्वात स्तेषु, एते चत्वारोऽपि एकेन्द्रियप्रत्येकजीच रूपाः स्थावराश्च ततश्च तेषु प्रत्येकमेकैकस्मिन् पृथिव्यादिनिकाये असंख्याताः संख्यातिकान्ता उत्सर्पिण्यः सिद्धान्तप्रसिद्धाः कालविशेषा, एता अवसर्पिणी संचलिता द्रष्टव्याः, तदभावे तासां केवलानामसंख्यातत्वाभावात् सर्वदापि संबद्धत्वेनैव भावात् तथा ता एव उत्सपिण्यवसर्पिण्योऽनन्ता अनन्तत्याख्यासंख्योपेता - स्तुरेव - कारार्थो योजित एव, 'तरुषु' वनस्पतिकायिकेषु तेष्वपि अनन्तकायिकेषु इति द्रष्टव्यम्, प्रत्येकतरुषु अनन्तकालानवस्थानात्, तथा सागराणां सागरोपमानां शतानि विंशतिः सहस्रद्वयमित्यर्थः, 'त्रसत्वे' द्वित्रिचतुःपञ्चेन्द्रियरूपे तान्यपि पूर्वकोथितवन अधिकानि यान्ति गच्छन्ति भ्राम्यन्तीत्यर्थः, के जन्तवो जीवाः कीदृशाः ? इलत आह-'मारूदः समुत्पन्नः 87
SR No.090161
Book TitleDvadashkulakam
Original Sutra AuthorJinvallabhsuri
AuthorJinpalgani
PublisherJindattsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy