________________
[3]
सभामृतानन्दभरेण पीडिते
भवन्मनः कुद्मलके स्फुटत्यति । विगाह्य लीलामुदियाय केवलं
स्फुटैकविश्वोदरदीपकार्चिषः ॥11॥
स्वयं प्रबुद्धाऽखिल वास्तव स्थितिः समरतकर्तृत्वनिरूत्सुकोऽभवन् । चिदेकधातु पचय प्रपञ्चितः
समन्नविज्ञानधनो भवानभूत् ॥ 12 ॥ ततो गलत्यायुषि कर्मपेलवं
स्खलद्बहिः शेषमशेषयन् भवान् । अवाप सिद्धत्वमनन्त मद्भुतं विसुद्धबोधोद्धेत धामिन निश्चलः ॥13 ॥
चिदेक धानोरपि ने समग्रता मनन्त वीर्यादिगुणाः प्रचक्रिरे। न जातुचिद्दव्यमिहैक पर्ययं विभर्ति वस्तुत्वमृतेऽन्यपर्ययैः ॥14 ॥
स्ववीर्यसाचिव्यबला दूरीयसीं
स्वधर्ममालामखिलां विलोकयन् । अनन्तधर्मोद्धतमालभरिणीं
जगत्त्रयीमेव भवानलोकयन् ॥15 ॥
त्रिकालविस्फूर्जदनन्तपर्यय
प्रपञ्चसंकीर्णसमस्तवस्तुभिः ।