________________
यथोत्तरं सौम्यमुपागताः सदा स्फुरन्त्यनन्ता नव तत्त्व भक्तयः15।। अखण्डसत्ताप्रभृतीनि कात्स्यतो बहून्यपि द्रव्यविखण्डितानि ते। विशान्ति तान्यैव रतानि तैर्विना प्रदेश शून्यानि पृथक् चकासति 16 ।।
कृत्तावता रानितरेतरं सदा सतश्च सत्तां च चकाशतः समम्।
विचिन्वतस्ने परितस्सनातनं विभाति सामान्य विशेष सौहृदम्॥17॥
मुहुमिथः कारणकार्यभावतो विचित्ररूपं परिणाम मिग्नतः।
समन भावास्तव देव! पश्यतो व्रजन्त्यनन्ताः पुनरप्यनन्तनाम्।।18॥
अनन्तशो द्रव्यमिहार्थपर्ययै विदारिनं व्यञ्जनपर्ययैरपि।
स्वरूपसत्ताभग्गाढयन्त्रितं समं समग्रं स्फुटतामुपैति ते॥१॥
व्यपोहितुं द्रव्यमलं न पर्यया न पर्यया द्रव्यमपि व्यपोहते। त्यजेद्भिदां स्कन्धगतो न पुद्गलो न सत्पृथग्द्रव्यगमेकतां त्येजन्॥20 ।।