________________
प्राप्त: क्रमात् कुशलिन: परमप्रकर्ष ज्ञानक्रियाव्यतिकरण विवेकपाकः ।।1।।
श्रेणीप्रवेशसमये त्वमथाप्रवृत्तं कुर्वन् मनाकरणमिष्ट विशिष्टशुद्धिः।
आरूढ एव दृढवीर्यचपेटितानि निर्लोठयन् प्रबनमोहबलानि विष्वक् ॥12॥
कुर्वन्नपूर्वरुरणं परिणामशुद्धया पूर्वादनन्तगुणया परिवर्तमानः।
उत्तेजयन्नविरतं निजवीर्यसारं प्राप्तोऽसि देव परमं क्षपणोपयोगम्॥13॥
प्राप्यानिवृत्तिकरणं करणानुभावा निर्णालयन् झगिति बादरकर्मकिट्टम्। अन्तर्विशुद्धिविकसन् सहजात् स्वभावो जातः' चित् चिदपि प्रकट प्रकाशः14।।
स्वं सूक्ष्माकिट्टहठघट्टनयाऽवशिष्ट लोभाणुकैककर्णाचकणमुत्कय स्त्वम्।
आलम्ब्य किञ्चिदपि सूक्ष्मकषायभावं जातः क्षणात् क्षपितकृत्स्नकषायबन्धः15
उदम्य मांसलमशेषकषाय किट्ट मालम्ब्यनिर्भरमनन्तगुणा विशुद्धीः।
जातोऽस्यऽसंख्यशुभसंयमलब्धिधाम सोपानपंक्तिशिखरैकशिखामणिस्त्वम्।।16 ॥
शब्दः संक्रमवितर्कमनेकधावः स्पष्टया तदास्थितमनास्त्वमसंक्रमोऽभूः ।