________________
[2]
शुद्धोपयोम दृढ भूमिमितः समन्ताद दन्तर्मुखस्त्वमभवः कलयंस्तदेव ॥5 ।।
शुद्धोपयोगरसनिर्भरबद्धलक्ष्यः साक्षाद्भवन्नपि विचित्रपतोऽवगूर्णः। बिभ्रत्क्षयोपशमजाश्चरणस्य शक्तिः स्वादान्तरं त्वभगमः प्रगलत्कषायः॥6॥ वेद्यस्य विश्वगुदयावलिका: स्खलन्ती. मत्वोल्लसन् द्विगुणिताद्भुत बोधवीर्यः।
गाढं परीपहनिपातमनेकवार प्राप्तोऽपि मोहमगमो न न कातरोन्तः ।।7॥ अस्नन् भवान्निजनिकाचित कर्मपाक मेकोपि धैर्यबल वृद्धिततुङ्गचित्तः। आसीन काहल इहास्खलितोपयोग गावग्रहादगणयन् गुरुदुःखभारम्॥8 ।।
उद्दामसंयमभरोद्वहनेऽप्यखिन्नः सन्नह्यदुर्जयकषायजयार्थमेकः । बोधास्तुतैक्ष्पयकरणाय सदैव जाय देवश्रुतस्य विषयं सकलं व्यवैषी: 19 ।।
यव्य पर्ययगतं श्रुतबोधशक्त्या तीक्ष्णोपयोगमयमूर्तिरतर्कयरुवम्।
आक्राम्य तावदपवादतराधिरूढ शुद्धैकबोधसुभगं स्वयमन्वभूः स्वम् ।।10 ।।
तीवैस्तपोभिरभितस्तव देव नित्यं दूरान्तरं रचयतः पुरुषप्रकृत्योः।