________________
[4]
एकाग्ररूद्धमनसस्तव तत्र चित्त ग्रन्थी स्फुटत्युदितमेतदनन्ततेजः ॥17॥ साक्षादसंख्यगुणनिर्जरणस्त्रजस्त्व मन्ते भवन् क्षपितसंहतघातिकर्म्मा ।
उन्मीलन्नखिलमात्मकलाकलाप मासीरनन्तगुणशुद्धिविशुद्ध तत्त्व ॥18 ॥ एतत्ततः प्रभृति शानसनन्ततेज उत्तेजितं सहजवीर्यगुणोदयेन । यस्यान्तखन्मिषदनन्तमनन्तरूप संकीर्णपूर्णमहिम प्रतिभाति विश्वम् ॥19॥ योगान् जिघांसुरपि योगफलं जिघृक्षुः शेषस्य कर्मरजसः प्रसभं क्षयाय । आस्फोटयत्रति भरेण निज प्रदेशां
स्वं लोकपूरमकरोः क्रमभृ ( जू) म्भमाणः ॥20 ॥ पश्चादशेषगुणशीलभरोपपन्नः
शीलेशितां त्वमधिगम्य निरुद्धयोगः ।
स्तोकं विवृत्य परिवर्त्य झगित्यनादि संसारपर्ययमभूजिनसादिसिद्धः ॥21॥ सम्प्रत्यनन्तसुख दर्शनबोधवीर्य संभारनिर्भरभृतामृतसारमूर्त्तिः । अत्यन्तमायततमं गमयत्रुदर्क
मेको भवान् विजयते स्खलित प्रतापः ॥ 22 ॥ कालत्रयोपचित विश्वरसातिपान
सौहित्यनित्यमुदिताद्भुतबोधदृष्टिः ।