SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ [21 प्रदिपवनिर्वृतिमागतस्य ते समस्तमेवागमदेकशून्यताम्। न साहसं कर्म तवेति कुर्वतो मम प्रभो जल्पत एव साहसम्।।10।। विचित्ररूपाकृतिभिः समन्ततो व्रजन्निहार्थक्रियया समागमम्। त्वमेक एका प्रतिषेधवैभवः स्वयं हि विज्ञानधनोऽवभाससे 11 न किञ्चनापि प्रतिभाति बोधतो बहिर्विचित्राकृतिरेक एव सन्। स्वयं हि कुर्वन् जलधारणादिकं त्वमीशकुम्भादितयाऽवभाससे ।।12 ।। स्वयंहि कुम्भादितया न चेद् भवान् भवेद्भवेत् किं बहिरर्थसाधनम्। त्वयीशकुम्भादितया स्वयं स्थिते प्रभो किमर्थं बहिरर्थसाधनम् ।।13 ॥ त्वदेकविज्ञानधनमिषेधनात् समस्तमेतज्जडतां परित्यजत्। अभिन्नवैचित्र्यमनन्तमर्थकृत पृथक पृथग्बोधतयाऽवभासते॥4॥ त्वयीशविज्ञानघनौघघस्मरे स्फुटीकृताऽशेषविशेषसम्पदि। स्फुरत्यभिष्याप्य समं समन्ततो बलात् प्रवतो बहिरर्थनिहव15 ।। तदेव रूपं तव सम्प्रतीयते प्रभो परापोहतया विभासि यत्। परस्य रूप तु तदेव यत्परः स्वयं तवापोह इति प्रकाशते16 ।। अभाव एवैष परस्पराश्रयो व्रजत्यवश्यं स्वपरस्वरूपताम्। प्रभो परेषा त्वमशेषनः स्वयं भवस्य भावोऽल्पधियाम गोचरः ॥17॥ इनीदमत्यन्यमुपप्लवावहं सदोद्यतस्यान्यदपोहितुं तव। स्फुरत्यपोहोऽयमनादिसन्तति प्रवृत्ततीव्रभ्रमभिद्विपश्चिताम् ॥18॥ परस्परायोहतया त्वयि स्थिताः परेनकाञ्चिजनयन्ति विझियाम्। त्वमेक एव क्षपयन्त्रुपप्लवं विभोऽखिला पोहनयाऽषभाससे ॥19॥ गतं तवापोहतया जगयं जगत्मयापोहतया गतो भवान्। अतो मनस्त्वं सुगतस्तथागतो जिनेद्रसाक्षादगतोऽपि भाससे ॥20॥
SR No.090121
Book TitleChaturvinshati Stotra
Original Sutra AuthorN/A
AuthorMahavirkirti
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages327
LanguageHindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy