________________
[21
त्वमुपर्युपरि प्रभो भवन्निदमस्तीत्यविभिन्न धारया | अविभावितपूर्व पश्चिमः प्रतिभासि ध्रुव एव पश्यताम् ॥8 ॥ अयमेकविशेष्यतां गतस्त्वमनन्तात्मविशेषणश्रजः । प्रभवन्नविमुक्तधारया भगवन् भासी भवन्निरन्तरः ॥१ ॥
अजादिविशेषणैर्भृता निजधारा न तवैति तुच्छताम् । अजडादि विशेषणा नि न क्षयमायान्ति धृतानि धारया ॥ 10 ॥
अजडादिविशेषणानि ते परतो भेदकराणि न स्वतः । दधतः स्वयमद्वयं सदा स्वमसाधारणभावनिर्भरम् ॥11 ॥ अजडाद्यविभागतः स्थितस्तवभावोऽयमनंश एककः । अजडाद्यविभागभावनादभुभूतिं समुपैति नान्यथा ॥12 ॥1 भवनं भवतो निरङ्कुश सकला मार्ष्टि सकारकाः क्रियाः । भवनं दुयतामवाप्यते क्रियया नैव न कारकैरपि ॥13 ॥
भवने भवतो निरङ्कुशे लसेत कारणकार्यविस्तरः । न किलाभवनं करोति तत् क्रियतेऽभाभवनं च तनन ॥14 ॥ भवतीति न युज्यते क्रिया त्वयि कर्मादिकरम्बितोदया । भवनेकविभूतिभारिणः स्तव भेदो हि कलङ्ककल्पना ॥15 ॥ अजडादिमयः सनातनो जिनभावोस्यवकीर्णकश्मलः । अयमुच्छलदच्छचित् प्रभाभरमग्नस्वपरक्रमाक्रमः ॥16 ॥ भगवनकीर्णकलो यदि भावोऽसि विभामयः स्वयम् । तदयं स्वयमेव विस्फुरन्नविमोह समुपैषि कुमचित् ॥ 17 ॥ स विभाति विभामयोऽस्ति यो न विभावादविभामयः चित् । वनु सर्वमिदं विभाति यत् तदियं भाति विभैव निर्भरम् ॥18॥