________________
[41
दृग्बोधवीर्योपचितात्म शक्तिः समन्ततो नित्यमखण्डयमानः
अत्यन्त तैपयाद विभागखण्डै रनन्तशः खण्डय सीश विश्वम्।।16॥
दृढोपयुक्तस्य तव स्फुटन्त्य स्वशक्तयो विश्वसमावभासाः। विभो न भिन्दन्ति सदा स्वभाव चिदेक सामान्यकृतावताराः॥17॥
प्रमातृरूपेण तव स्थितस्य प्रमेय रूपेण विवर्तमानाः श्लिष्टावभासा अपि नैकभावं त्वया समं यन्ति पदार्थमालाः॥8॥
परप्रदेशैर्न परः प्रदेशी प्रदेशशून्यं न हि वस्तु किञ्चित्।
आलानयन् दर्शनबोधवीर्य जिनप्रदेशेषु सदैव भासि॥19॥ आलम्ब्य विश्वं किल पुष्कलेयं दृग्बोधवैचित्र्यमयी विभूतिः। नवस्वभावाद् दशिबोधमूर्ते रैतावदेवोपकृतं परेभ्यः ॥20॥
अनन्तधर्म प्रचितैः प्रदेशे दृग्बोधयोरा श्रयमात्रभूत: