________________
द्वितीयोऽध्यायः। "अलिवलयहुंकृतिभिरुच्चैर्, इयमिह निषेधति भवन्तम् । वनभुवमितः पथिक मा गाः, कुसुमितसमुल्लसदशोकाम् ॥ १५२.१ ॥
सज्या ल्गौ सारणी ॥ १५३ ॥ सजयलगाः। यथा
मदनस्निलोचनभालाग्निना, ज्वलितः क्षणादिह जीवेत् कथम् । त्रिवलीतरंगजुषः स्युर्न चेद्, रससारसारणयः सुभ्रवः ॥ १५३.१ ॥ तो जो गाविन्द्रवज्रा॥ १५४ ॥
यथास्वस्वागमाचारपरायणानां, पुण्यात्मनां यः कुरुते विरुद्धम् । लोणीभुजस्तस्य भवत्यवश्यं, रौद्रेन्द्रवज्राभिहतस्य पातः ॥ १५४.१ ॥ जतजा गावुपेन्द्रवज्रा ॥ १५५ ॥
यथा"दधासि धात्रीं विदधासि दुष्ट-, क्षमाभृतां निर्दलनं प्रसह्य । कुमारपाल क्षितिपाल कस्त्वम् , उपेन्द्रवज्रायुधयोस्तदत्र ॥ १५५.१ ॥ - एतयोः परयोश्च संकर उपजातिश्चतुर्दशधा ॥ १५६ ॥
एतयोरिन्द्रवज्रोपेन्द्रवज्रयोः संकरोज्योन्यपादमीलनमुपजातिः । सा च प्रस्तारमेदाचतुर्दशधा । एवं परयोरिन्द्रवंशा-वंशस्थयोः संकरः उपजातिश्चतुर्दशधैव । स्थापना"। s , ss, usi, sis, Iss, sss), ms, sus, Is/s, ss/s, us, ss, Isss. आद्यमेदोदाहरणं यथा. प्रायः पुमांसोऽभिनवार्थलाभे, गुणोज्वलेष्वप्यकृतादराः स्युः । __ अवाप्य कुन्दं मधुपो हि जज्ञे, गेतोपजातिभ्रमणाभिलाषः ॥ १५६.१ ॥ एवमन्येष्वप्युदाहायर्याः । समवृत्तप्रस्तावेऽप्युपजातीनामुपन्यासो लाघवार्थः॥१५६.१॥
सर्वजातीनामपीति वृद्धाः ॥ १५७॥ सर्वजातीनां उक्तादीनां प्रायो गायत्र्यादीनां इतः परासां जगत्यादीनां "कृतनामाकृतनामविसदृशप्रस्ताररूपस्खवपादानां स्वल्पभेदानां संकरः उपजातिरिति बहुश्रुताः पाहुः । यथा त्रिष्टुभः स्वप्रस्तारण
1) भलिवलयेति भवन्तमिति-कंचित् पथिकं वनलक्ष्मीः निषेधयति । 2) दधासि धात्रीमित्यत्र क्षमाभृतामिति-राज्ञां गिरीणां च । कस्त्वमिति-कः प्रश्ने । नारायण- पुरंदरयोस्तदन्त्र संग इति मन्ये । 3) स्थापनेति-अत्रैकेनायेन वर्णन पादकथनम् । यदि गुरुस्तदा इन्द्रवज्रायाः पादः । तत्र हितगणाद आयो वर्णो गुरू। लघुश्चेदुपेन्द्रवज्रायाः पादः। तत्र हि जगणाद् आद्यो वर्णो लघुः । चतुषु प्रसृतेषु आधान्तिममेदयोर्वर्जितयोरयं प्रस्तारः समायाति । आद्यभेदस्य इन्द्रवज्रारूपत्वादन्त्यभेदस्योपेन्द्रवज्रारूपत्वात्तयोर्वर्जनम । 4) कृतनामाकृतनामेति-विसदृशप्रस्ताररूपाः स्वस्वपादा यस्याम् । एकंकाक्षरः न बहुभिः।
१ सारिणी BGH. २ दमनः N. ३ यत् N. ४ यथा dropped in AE. ५ त्यक्तीपजाति. A. ६ अपि वृद्धाः प्राहुः म...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org