________________
छन्दोऽनुशासनम् । "कामे कमाहिँ कमियं खु दुक्खं, छिंदाहि दोसं विणएज रागं ॥ १५७.१॥
तथा"सकारए सिरसा पंजलीओ, कायग्गिरा भो मणसा ये निञ्चं ॥ १५७.२ ॥ परजातिप्रसारेण यथा"युधिष्ठिरो धर्ममयो महाद्रुमः, स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखा ।
माद्रीसुतौ पुष्पफले समृद्धे, मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च ॥ १५७.३ ॥ 4जे आवि मंदेर्ति गुरुं विइत्ता, डहरे इमे अप्पसुएत्ति नच्चा ॥ १५७.४ ॥ ११॥३०॥
जगत्यां तो ज्राविन्द्रवंशा ॥ १५८ ॥ ततजराः। यथा
"दारेषु सुग्रीवकपीश्वरस्य यद्, रागानुबन्धं सहसा व्यपश्चयः । तत् ते प्लवंगाधिपते किमुच्यते, हन्तेन्द्रवंशानुगुणं त्वया कृतम् ॥ १५८.१ ॥ जतज्रा वंशस्थम् ॥ १५९॥
यथापुरूरवोनाहुषिपूरवः पुरा, दधुर्धरां धारयतेऽधुना भवान् । अपूर्वमेतञ्चरितं न तावकं, वदन्ति वंशस्थमिदं महीपते ॥ १५९.१ ॥
वसन्तमञ्जरी, अभ्रवंशा चेत्यन्ये ॥ १५९.१॥ नभज्याः कलहंसा ॥१६०॥
यथा'गुणलवेऽपि सुभग प्रियसख्या, गुणिकथाक्रमवशात् प्रकृते ते । घटयते किमपि नाटितलज्जा-, कृतकमाशु सुतनुः कलह सा ॥ १६०.१ ॥
द्रुतपदा, मुखरं चेत्यन्ये ॥ १६०.१॥ नभसाश्चन्द्रवर्त्म ॥१६१॥ रनभसाः। यथा"सैहिकेयभयविह्वलमनसः, स्वप्रभाभिरिह दक्षमुनिसुताः । नाममात्रमपि सोढुमपटवश् , चन्द्रवर्त्म रचयन्ति हततमः ॥ १६१.१ ।।
1)(हिं इति यद्यपि अनुस्वाराद्दी?ऽस्ति तथाप्यत्र प्रस्तारे हिं इत्यक्षरस्य लघुत्वं प्रस्तार्यम् Tippana in B.) कामे कमाहीति अकृतनाम । छिंदाहीति इन्द्रवज्रायाः पादः। 2) सकारएत्ति अकृतनाम । कायग्गिरेति इन्द्रवज्रापादः। 3) युधिष्ठिरो धर्मेति वंशस्थपादः। स्कन्ध इति लयग्राहिपादः। यतः तिौँ लयग्राहि । माद्रीसुताविति-नकुलसहदेवौ । इन्द्रवज्रा। मूलमिति शा[लि]नीपादः ॥ 4) जेआवित्ति इन्द्रवज्रापादः । डहरेत्ति केकिरवच्छन्दः। 5) दारेषु सुग्रीवकपीश्वरस्येत्यत्र हे वालिन् इन्द्रोऽपि पुरा अहल्याख्यायां ऋषिपल्या लुब्धोऽभूत् त्वमसि इन्द्रपुत्र इति तवेदं युज्यत इति भावः। 6) गुणलवेपीत्यत्र प्रकृते प्रारब्धे । नाटितलजेति-अभिनयविषयं प्रापिता ब्रपा यथेति सा। कृतकमिति-कृत्रिमम् । 7) सैंहिकेयेत्यत्र दक्षमुनिसुताः २७ तारकाः । हततम इति-तमः शब्देन राहुर्भण्यते ।
१कमाहि ACDN. २ धिणइज A.; विणइज P.३ पंजलिओ A. ४ इA. ५ जे यावि P. ६ मंदित्ति A; मंदेति B. ७ विईत्ता A. ८ निच्चा P. ९नाधुषि ADP. १० अपभ्रंशा A. ११ सोढमप...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org