________________
द्वितीयोऽध्यायः।
सीस्तोटकम् ॥१६२॥ सीरिति चत्वारः सगणाः । यथा"परलोकविरुद्धकुकर्मरतं, बहिरार्जवमादधतं कुटिलम् । विषकुम्भमिवेद्धसुधापिहितं, त्यज मित्रमतोटकतैकगुणम् ॥ १६२.१ ॥
"मात्रासमकमिदम् ॥ १६२.१ ॥ नभभ्रा द्रुतविलम्बितम् ॥ १६३ ॥
यथापरुषसान्द्रवचोरचनाञ्चिता, रुदितहासविलोलविलोचना । अवचनं कथयत्यतिरौगितां, द्रुतविलम्बितचित्रगतैरियम् ॥ १६३.१ ॥
हरिणप्लुतमिति भरतः ॥ १६३.१ ॥
नौ म्यौ पुटो जैः॥१६४ ॥ ननमयाः । जैरित्यष्टभिर्यतिः । यथा"तरललवणिमाम्भःपूर्णकुम्भी, सुचरितफलपाकोल्लासँवल्ली । सुतनु तव विराजत्यङ्गसंगान , नयनपुटनिपेया यौवनश्रीः ॥ १६४.१ ॥
नौ म्रौ ततम् ॥ १६५ ॥ ननमराः । यथानववयसि वियुक्तानां योषितां, प्रिय कथय निराशानां का गतिः । त्वमपि सुभग गन्ता देशान्तरं, गगनमपि च मेघव्यूहैस्ततम् ॥ १६५.१ ॥
नौ भ्रावुज्वला ॥ १६६॥ ननभराः। यथाविनयितमनसोऽपि निरन्तरं, बत विदधतु किं नु विवेकिनः । 'नयनगतिरियं हि सुदुःसहा, चकितमृगशामहहोज्वला ॥ १६६.१॥
चलनेत्रेत्येके ॥ १६६.१ ॥ तीः कामावतारः॥ १६७॥ तीरिति चत्वारस्तगणाः । यथा"मध्ये नताझ्या नवा रोमराजीति, यन्मन्यते मुग्धलोको न तत् किं तु । तुङ्गस्तनास्थानिकाकुट्टिमारूढ-, कामावताराय निःश्रेणिकां विद्धि ॥१६७.१॥
1) परलोकेत्यत्र अतोटकतैकगुणमिति - न कलहकर्मणि तुटतीति अतोटकं तस्य भावः अतोटकतैव एको गुणो यस्याः । कलहकारिता एकगुण इति भावः । त्यज मित्रमिति पाठे आदधतं इति विशेषणं न घटते मित्रशब्दस्य संयुक्तरान्तत्वानपुंसकत्वे । तस्मात्यज भृत्यमिति शुद्धः पाठः। 2) मात्रासमकमिदमिति-अजमुख
श्रीगन्तो। 3) अवचनं क्रियाविशेषणम् । 4) तरललवणिमेति- चञ्चलं मनोहरत्वं तद्रूपं पयस्तस्य कुम्भी। . सुचरितपाकेति-पाकोऽनुभवः। 5)मध्ये नताझ्या इति-मध्यं वलित्रयभृत् । आस्थानिकेति-आस्थानशाला।
१ विरुद्धः कु. A. २ नभभरा यथा P. ३ अतिरागतां N. ४ पूर्णकुम्भा A. ५ उल्लासिवल्ली E. . ६ तु BNP; नु dropped in A. ७ चपलने. FN. ८ स्तनीस्था० A. ९ निःश्रेणिकं N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org