SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ८ छन्दोऽनुशासनम् । न्यौ न्यौ कुसुमविचित्रा ॥ १६८॥ नयनयाः। यथासरसिजवक्त्रा कुवलयनेत्रा, विकच पोष्ठी विचकिलदन्ता । इयमनुरूपा ननु कुसुमेषोर, जयति धनुःश्रीः कुसुमविचित्रा ॥ १६८.१ ॥ इयं मदनविकारा गजलुलितं वा अन्येषाम् ॥ १६८.१॥ जसज्सा जलोद्भुतगतिश्चैः ॥ १६९ ॥ जसजसाः । चैरिति षड्भिर्यतिः । यथा"विकोसिकुसुमं सदाफलयुतं, निसर्गशिशिरं तैटे विटपिनम् । निपातितवती हहा सरिदियं, निकामकलुषा जलोद्धतगतिः ॥ १६९.१ ॥ योर्भुजंगप्रयातम् ॥ १७०॥ यीरिति चत्वारो यगणाः । यथा"न सूरिः सुराणां गुरुर्नासुराणां, पुराणां रिपुर्नापि नापि स्वयंभूः । खला एव विज्ञाश्चरित्रे खलानां, भुजंगप्रयातं भुजंगा विदन्ति ॥ १७०.१ ।। ____ अप्रमेयेति भरतः ॥१७०.१॥ रीः स्रग्विणी ॥ १७१॥ रीरिति रगणाश्चत्वारः । यथा - "तारकामल्लिकॉमालिकामालिनी, चारुचन्द्रप्रभाकेतकीशालिनी । भोगभाजां भुजंगेश्वराणां प्रिया, सेयमुज्जृम्भते शर्वरीस्रग्विणी ॥ १७१.१ ॥ पद्मिनीति भरतः॥ १७१.१॥ जीौक्तिकदाम ॥ १७२॥ जीरिति जगणाश्चत्वारः । यथा"समाधिपयोधिनिमग्नमदीनम् , अनीहमकाममवाममनाधि । जिनेन्द्र मनो मम वाञ्छति नाम, न विभ्रमधाम न मौक्तिकदाम ॥१७२.१॥ मीः कल्याणम् ॥ १७३ ॥ मीरिति मगणाश्चत्वारः । यथा 1) विकासिकुसुममित्यत्र एवंविधं वृक्षं निपातितवती । वचसा अन्योक्तिरभ्यूह्या। 2) न सूरिसराणामित्यत्र बृहस्पतिः। पुराणां रिपुरितीन्द्रः । भुजंगप्रयातमिति-प्रयातं गतिम्। 3) तारकेत्यत्र मालि: नीति-मलमल्लिधारणे । भोगभाजामिति -पक्षे सर्पाणाम् । स्रग्विणीति-मालावती। 4) समाधिपयोधिनिमग्नत्यत्र नामेति-कोमलामघ्रणे । विभ्रमधामेति-विलासगृहम् । मौक्तिकदामेति-मुक्ताफलहारम् । १ जपौष्ठी ABCD. २ विकाशि० AP. ३ तटविट• N; तटे विपिनं. ४ शरदियं A. ५मालिकामल्लिका A. ६ जितेन्द्र A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy