________________
छन्दोऽनुशासनम् ।
मस्जा गावेकरूपम् ॥ १४६ ॥ मसजा गुरुद्वयं च । यथा
काष्ठे वा कनकेऽथवा मणौ वा, लोष्टे वा रमणीषु वा तृणे वा । शापे वा स्तवनेऽपि वा वितृष्णं, साधूनां मन एकरूपमेव ॥ १४६.१ ॥ तो जौ ल्गौ मोटनकम् ॥ १४७॥
यथा"दन्तद्युतिधौतदिगन्तरया, रम्यं नवयौवनया विहितम् । साचीकृतलोलविलोचनकं, दृष्टं भवता मुखमोटनकम् ॥ १४७.१ ॥ तभजल्गा उत्थापनी ॥१४८॥
यथासर्पद्विपेन्द्रभरकम्प्रमही-, प्रभ्रश्यददिशिखरध्वनिभिः । अम्भोधिमध्यशयितस्य हरेर्, उत्थापनी जयति ते' पृतना ॥ १४८.१ ॥ तो नौ ल्गौ मुखचपला ॥ १४९ ॥
यथा"आकाङ्क्षसि यदि सुखमसमं, जन्मापि विमलमिह मनुषे । नागीमिव निरवधिकुटिलां, नारी परिहर मुखचपलाम् ॥ १४९.१ ॥
न्यनल्गाः कमलदलाक्षी ॥ १५०॥ नयनलगाः यथा
विरहनिदाघः सुभग हठाद्, अतिशयदीर्घाकृतदिवसः । कृतगुरुतापः कृर्शयति तां, कमलदलाक्षीं सरितमिव ॥ १५०.१ ॥
रुचिरमुखीति भरतः॥१५०.१॥ स्मनल्गा विमला ॥ १५१॥. समनलगाः । यथा
शरदायातेयं गगनमणेर्, इव तेजः प्रौढिं तव भजताम् । नृप कीर्तिर्योत्स्ना तुहिनरुचेर्, इव दिक्षु भ्राम्यत्वतिविमला ॥ १५१.१ ॥
नस्ला गावशोका ॥ १५२॥ नसना गुरुद्वयं च । यथा1) दन्तद्युतीति - साचीकृतेति वक्रीकृतम्। 2) आकाङ्क्षसीत्यत्र मुखचपलामिति - वाचालाम् ।
१ मणौ वा A. २शिखाध्व.A. ३ सा पृ० ; ४D drops नयनलगाः to कमलदलाक्षी. ५ विहरनि. N. ६कशयति APB. ७ तेजः प्रौढं N. ८ कीर्तिज्योत्स्ना A0. ९ नना P. ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org