SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। "वहति न मन्दं दक्षिणवायुर्, भ्रमति न तूर्णं चूतपरागः । दधति न पिक्यः पञ्चमरागं, किमु पतिता त्वं पादतलेऽस्य ॥ १४०.१ ॥ नरल्गा रथोद्धता ॥ १४१॥ रनरा लघुगुरू च । यथा तावकीनकटके रथोद्धताः, धूलयो जगति कुर्युरन्धताम् । चेदिमाः करिघटा मदाम्भसा, भूयसा प्रशमयेन्न सर्वतः ॥ १४१.१ ।। "अपरान्तिकेयम् ॥ १४१.१॥ नभा गौ स्वागता ॥ १४२ ॥ रनभा गुरुद्वयं च । यथा वल्लभं सुरभिंमित्रमनङ्ग, दाक्षिणात्यपवनं सुहृदं च । पृच्छतीह परपुष्टविघुटैः, स्वागतानि नियतं वनलक्ष्मीः ।। १४२.१ ।। नौ रल्गा भद्रिका ॥ १४३ ॥ नद्वयं रो लघुगुरू च । यथा परिहर नितरां परापदं, कुरु जिनवचनेऽनुरागिताम् । इति तव चरतः परे भवे, भवतु सपदि भद्रिका गतिः ॥ १४३.१ ॥ अपरवक्त्रमिति भरतः। "उत्तरान्तिकेयम् ॥ १४३.१ ॥ रजल्गाः श्येनी ॥ १४४ ॥ रजरा लघुगुरुं च । यथा भ्रान्तगृध्रवृन्दकङ्कमण्डल-, श्येनिका त्वदीयवैरिवाहिनी । आपतत्कृतान्तरौद्रकिंकर-, व्याकुलेव लक्ष्यते क्षमापते ॥ १४४.१ ।। निःश्रेणिकेत्यन्ये ॥ १४४.१ ॥ "नो जौ ल्गौ सुमुखी ॥ १४५ ॥ यथाकनकरुचिर्घनपीनकुचा, मनसिजविभ्रमकेलिगृहम् । चलनयना नवकुन्ददती, न हरति कस्य मनः सुमुखी ॥ १४५.१ ॥ द्रुतपादगतिरिति भरतः ॥ १४५.१ ॥ 1) वहति न मन्दमिति-प्रसरति । एतानि कामिन्याः भर्तुः पादपतने कारणानि । तदभावे पतितेति । 2) अपरान्तिकेयमिति-वैतालीयादेर्युक्पादजापरान्तिका । एतद्भेदत्वाद् रथोद्धतायाः। 3) उत्तरान्तिकेयमिति-वैतालीयादेरोजजा । चारुहासिनीति-चारुहासिनी प्रत्यन्तरे। 4) नो जो लगौ सुमुखीति-नन्वत्र छन्दोनामत्वान्नखमुखेति ङीर् न प्राप्नोति । अत्राह - शोभनं मुखं यस्याः सा अनिर्दिष्टा स्त्री, ततो ङीः । ततः सुमुखीव इदं छन्दः प्रधानत्वात् सुमुखी। २ चारुहासिनीयं BGP; उत्तरा० । चारु० यं A. ३ लगौ च A. १ सुरभिमीशमनङ्गं ABDGP. ४ वैरवाहिनी B. ५ छन्दो० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy