SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ३२ छन्दोऽनुशासनम् । मात् तौ गौ शालिनी घैः ॥ १३५ ॥ मेस्तद्वयं गुरुद्वयं च । घैरिति चतुर्भिर्यतिः । यथा - "ऊर्मीभङ्गीर्निर्मिमाणा धुनीनां, व्यातन्वाना वीरुधा लास्यलीलाम् । उज्जृम्भन्ते शालिनीवारपाक-, स्फारा मोदाः शारदा वांयवोऽमी ॥ १३५.१ ॥ मभता गौ वातोर्मी' ॥ १३६ ॥ "चैरिति वर्तते । यथा - "स्वच्छत्रूणां विपिनं' प्रस्थितानां, क्षिप्तः पांशुर्हशि वातोर्मिकाभिः ॥ , तापः सूर्येण च मूर्ध्नि प्रकीर्णः को वा नास्कन्दति संप्राप्तभङ्गान् ॥ १३६.१॥ मो भौ गौ वा ॥ १३७ ॥ वातोर्या एव लक्षणान्तरम् । धैरिति वर्तते । यथा " घोराकारा घनघोषविशेषा, दूरोत्क्षिप्तक्षितिरेणुविमिश्रा । लोकक्षोभं सहसा विदधाना, वातोर्मीयं कुरुते जगदन्धम् ॥ १३७.१ ॥. मनगा भ्रमरविलसितम् ॥ १३८ ॥ मभना लघुगुरू च । चैरिति वर्तते । यथा - 'प्रत्याख्याताप्यसि कमलवनं, याता तत् किं करतलचलनैः । मुग्धे विद्धि स्फुटकमलधिया, वक्त्रापातिभ्रमरविलसितम् ।। १३८.१ ॥ " वानवासिकेयम् ॥ १३८.१ ॥ नौ सो गौ वृन्ता ॥ १३९ ॥ घैरिति वर्तते । यथा - Jain Education International जिनपतिगुरुपदपीठे यो ऽशठमतिरिह लुठति प्रीत्या 1 विगलति निखिलमघं तस्मात्, परिणतफलमिव वृन्तान्तात् ॥ १३९.१ ॥ न्यभा गौ पतिता चैः ॥ १४० ॥ नयभा गुरुद्वयं च । चैरिति षड्भिर्यतिः " । यथा 1 ) उर्मीभङ्गीरित्यत्र उर्मी कल्लोलः । धुनीनां नदीनाम् । व्यातन्वानाः कुर्वाणाः । शालिनीवारपाकेति - उताः शालयेोऽनुप्ता नीवाराः । यद्वा शालिनः शोभना ये नीवारा वनव्रीहयः इति वा कार्यम् । एतावता त्रिधा वायुर्वर्ण्यते शीतो मन्दः सुरभिश्च । 2 ) त्वच्छत्रूणामित्यत्र वातोर्मिकाभिर्वातमण्डलीभिः । नास्कन्दति []ति । 3 ) घोराकारेत्यत्र घोरो भयकृत् आकाशे यस्याः सा, महद् घोषवती । 4) प्रत्याख्यातापीत्यत्र निराकृतापि । यदीति शेषः । यातेति - प्राप्ता । चलनैरिति निषेधनैः । 5 ) वानवासि केयमिति - अजमुखश्रीर्गन्तो नवमे द्वादशे च ले सति वानवासिका । एतद्भेदविशेषाद् भ्रमरविलसितस्य । १ मातौ N; मत्तौ A. २ मतद्वयं N. ३ वातोर्मी : G. ६ गौ धैर्वा G. ७ इति च वर्तते B. ८ विशेषात् NP. ९ 'सितं ११ याति D. - For Personal & Private Use Only ४ चैरित्यनुवर्तते . ५ विपिने N. : GH. १० वृन्तं ; वृन्ता घैः GH. www.jalnelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy