SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। भिरगौ दोधकम् ॥ १३० । भत्रय गुरुद्वर्य च । यथा "पुष्करमम्बुदगर्जितधीरैः, श्रव्यमदो धकधोंकृतिनादैः । व्यञ्जितपाठकृतिध्वनिपाद-, न्यासमसाविह नृत्यति सुभ्रूः ॥ १३०.१ ॥ "उपचित्रेयम् ॥ १३०.१॥ सिल्गा विदुषी ॥१३१ ॥ सत्रयं लघुगुरू च । यथा "कुरुते तरसा न हि चापलं, स्वयमेव न चार्थयते परम् । प्रकटं कुरुते न वियाततां, प्रमदा विदुषी भवतीदृशी ॥ १३१.१ ॥ भना गौ श्रीः ॥१३२ ॥ "डैरिति पञ्चभिर्यतिः । भतना गुरुद्वयं च यथा या सुजनानामुपकरणाय, प्रद्विषतां च प्रतिकरणाय । मानधनानां भवति नराणां, श्रीरितरा स्यात् परिकरमात्रम् ॥ १३२.१ ॥ सान्द्रपदमित्यन्ये । रुचिरेति भरतः । यतिनियमाभावे इदमेव प्रत्यवबोधः ॥१३२.१॥ तो जौ गाव॑पस्थिताः ॥ १३३ ॥ यथाया मानमहाविषघूर्णिताङ्गी, नाभूत् कलयापि वशंवदा ते । लोलन्मलयानिलदोलितात्मा, प्रीत्या सविलासमुपस्थिता सा ॥ १३३.१ ॥ जस्ता गार्बुपस्थितम् ॥ १३४॥ जसता गुरुद्वयं च । यथा "शिलीमुखततिं सत्पक्षनादां, मुहुन्धितं बाणासनाङ्के। पुरः शरदृतुं संप्रेक्ष्य राजन्, उपस्थितमरिस्त्वामेव मेने ॥ १३४.१॥ 1) पुष्करमम्बुदेत्यत्र मृदङ्गं श्रव्यं कैः धकधोंकृतिनादैः। धकं नाम वादिनं तस्य ये धोंकृतिनादास्तैः । पाठस्य कृती उपाध्यायः व्यञ्जितः पाठकृतिन उपाध्यायस्य ध्वनिः पादन्यासेन यत्र नृत्ये । एतत् क्रियाविशेषणम् । 2) उपचित्रेयमिति - ग्युपचित्रा । चगणचतुष्टये नवमगुरावुपचित्रा। 3) कुरुते तरसेत्यत्र वियाततां पृष्टताम् । स्त्रीणां हि स्वभावोऽयं हावभावादिना स्वविषयं पुरुषं करोति परं मुखेन तं न प्रार्थयति । 4) शिलीमुखततिमित्यत्र भ्रमरश्रेणिं बाणश्रेणिं च । सन्तौ पक्षनादौ यस्याः सन् पक्षनादो यस्या वा। बाणासेति - बाणवृक्ष-बीजकवृक्षयोरके । पक्षे धनुषि । ... १ पाटकृति DNP. २ तनुते AP. ३ भन्नार्गों E. ४ डैरिति DE. ५P adds वानवासिकेयं, ६गौ उप. N. ७ विदधतं N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy