SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । . यथा"सर्पद्भिस्तव दिग्जययात्रा-, स्वेभिर्देव तुरंगमसैन्यैः । प्राज्यैरुद्धतमध्वरजस्तां, वृद्धि प्राप न वृन्दमरीणाम् ॥ १२४.१ ॥ नज्यगा विपुलभुजा ॥ १२५ ॥ नजया गुरुश्च । यथा "रिपुवनिताजननिःश्वासैर्, अविरतमुष्णतः क्लान्ता । भजति चुलुक्य जयश्रीस्ते, विपुलभुजाविटपिच्छायाम् ॥ १२५.१ ॥ स्जस्गा माला ॥१२६॥ सजसा गुरुश्च । यथा गगनाङ्गणे कुमुदषण्डे-, श्रियमुद्वहन्ति निपतन्त्यः । भवदीक्षणोत्सवसतृष्णाः, नृप सुध्रुवां नयनमालाः ॥ १२६.१ ॥ - प्रमितेत्यन्ये ॥ १२६.१ ॥ १०॥२०॥ त्रिष्टुभि भौ रो गौ रोचकम् ॥ १२७ ॥ यथा"कुम्भभुवो जयतीह माहात्म्यं, तद्वडवामुखतेजसश्चापि । यस्य जगत्प्रलयप्रगल्भोमिर्, अञ्चति रोचकगोचरं सिन्धुः ॥ १२७.१ ॥ रः सौ ल्गावच्युतम् ॥ १२८ ॥ यथात्वं दधासि विभो परमेष्ठिताम् , ईश्वरत्वमपि त्वयि राजति ।। अच्युतत्वमपि त्वमुपश्रितः, कोऽपरस्त्वदृते जिन देवता ॥ १२८.१ ॥ तिौ लयग्राहि ॥ १२९॥ तगणत्रयं गुरुद्वयं च । यथा वीणानिनादानुबन्धेन हृद्यं, काञ्चीरणत्कारचित्रीयमाणम् । नव्याङ्गहारप्रकाराभिरामं, दत्ते प्रमोदं लयग्राहि लास्यम् ।। १२९.१ ।। 1) सर्पद्भिस्तवेत्यत्र [यात्रासु एभिः] वृन्दमरीणामिति-वैरिणां वृन्दं वृद्धिंन प्राप किंतु वत्सज्योत्थितं रजः वृद्धि प्रापेति भावः। 2) रिपुवनितेत्यत्र क्लान्तेति-अन्यापि काचित् या स्त्री भवति सा तापेन पीडिता सती वृक्षं याति। 3) कुम्भभवो जयतीत्यत्र घटयोनेर्वडवानलस्य च रोचकगोचरं बुभुक्षाविषय सिन्धरञ्चति प्रकटीकरोति । कोऽर्थः । भगस्तिना जगालयप्रगल्भोमिरपि समुद्रश्चलुकेन पीतो वडवामिनाच शोषितः। नाग्नि पुंसि चेति णको, रोचकः। १ कान्ता x. २ खण्ड AD. ३ दृष्टुभि .. प्रलय dropped in 2 ५वेक्षेन Dr. ६ काञ्चीकणत्कार,2. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy