________________
द्वितीयोऽध्यायः।
नौ म्गो बन्धूकम् ॥ ११८॥ भनमा गुरुश्च । यथा
"एतदभिनवभावद्विम्बं, शोणरुचिरुचिरं प्राग्वध्वाः । शेखरितनवबन्धूकश्री-, बन्धुपदमधुना संधत्ते ॥ ११८.१ ।।
व्रज्गा मनोरमा ॥ ११९॥ नरजा गुरुश्च । यथा
निखिलदीनदुःखदारिणी, सकलबन्धुसंविभागकृत् । गुणिजनामृतार्णवोपमा, भवति सा रमा मनोरमा ॥ ११९.१ ॥ तो जौ ग उपस्थिता ॥ १२० ॥
यथा"एषा भवतः समराङ्गणे, राजन् जयसिद्धिरुपस्थिता । कीर्तिः कुपितेव भवत्प्रिया, सद्योऽभिससार दिगन्तरम् ॥ १२०.१ ॥ .
___ अत्र द्वाभ्यां यतिरित्येके ॥ १२०.१॥
र्मस्गाः कलिका ॥ १२१ ॥ रमसा गुरुश्च । यथा
कुन्दयष्टिं हृष्टः परिचुम्बन , किं न रे रोलम्ब त्रपसे त्वम् । तत्तथा येन प्रागनुरागात् , क्रीडितं मालेत्याः कलिकायाम् ॥ १२१.१ ॥
भनगा मृगचपला ॥१२२॥ भतना गुरुश्च । यथा
"साधु समाधावविचलताम् , आश्रय हे मानस सततम् । वाञ्छसि यद्यव्ययपदवीं, मा कुरु वृत्तिं मृगचपलाम् ॥ १२२.१ ।। मो नौ गः कुमुदिनी ॥ १२३ ॥
यथाआसाद्य प्रियमिह शशिनं, निर्गच्छद्भमरकुलमिषात् । ... . मूर्त दुःखमिव विरहजं, तत्कालं वमति कुमुदिनी ॥ १२३.१ ॥
कुसुमसमुदितेत्यन्ये ॥ १२३.१ ॥ मः सौ ग उद्धतम् ॥ १२४ ॥
1) एतदभिनवेत्यत्र शेखरितनवबन्धूकेति-शेखरितानि शेखरीकृतानि च तानि नवबन्धुकानि च तेषां श्रीः शोभा तस्याः बन्धुपदं सादरत्वं साम्यमिति भावः। 2) एषा भवत इत्यत्र उपस्थितेति-प्रादुर्भूता। 3) साधु समाधावित्यत्र अविचलतेति-स्थिरत्वं । अव्ययपदवीमिति-मोक्षमार्गम् ।
१ मृता dropped in D. २ मालव्याः N.
३ भतनगा यथा A. ४ पूर्त....
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org