SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ २८ "छन्दोऽनुशासनम् । ननगास्त्वरितगतिः ॥ ११२ ॥ नजना गुरुश्च । यथा दिनकरपीतशुचिरुचिशू, चरमगिरेः शिखरतटीम् । अनुसरति त्रपित इव, त्वरितगतिः सितकिरणः ।। ११२.१ ।। भ्मस्गा रुक्मवती ॥ ११३ ॥ भमसा गुरुश्च । यथा - ये विजितात्मानो नयनिष्ठाः, जाग्रति लोकं रक्षितुकामाः । स्यान्नियतं तेषां वसुधेयं, रुक्मवती मृन्मय्यपरेषाम् ॥। ११३.१ ॥ चम्पकमाला सुभावेति चान्ये । पुष्पसमृद्धिरिति भरतः ।। ११३.१ ॥ भिगौ चित्रगतिः ॥ ११४ ॥ Jain Education International भत्रयं गुरुश्च । यथा - " यस्य न कापि कला न मतिर्, न व्यवसायलवोऽपि तथा । सोऽपि कथंचन जीवति चेद्, दैवमिदं खलु चित्रर्गति ॥। ११४.१ ॥ निगौ निलया ॥ ११५ ॥ नत्रयं गुरुश्च । यथा - " अपि सरिदधिपतिसुता, हरिमपि परिहरति यत् । अधमपुरुषकृतरतिं, धिगहह कमलनिलयाम् ॥ ११५.१ ॥ जिगावुषिता ॥ ११६ ॥ जत्रयं गुरुश्च । यथा - " स किं वद नीचसमाश्रयो, न किं कथय स्थितिरुन्नते । न चापलमुज्झसि लक्ष्मि किं न चेद् उषिता जलधामनि ॥। ११६.१ ।। रः सौ गो मणिरङ्गः ॥ ११७ ॥ यथा - धीमतां हि गुणो विशदश्रीर, जायते गुणिसंगमवाप्य । शोभते नितरां न किमङ्गे, कुङ्कुमारुणिते मणिरेंङ्गः ॥ ११७.१ ॥ 1 ) यस्य न कापीत्यत्र चित्रगतीति - चित्रा अद्भुता गतिः प्रकारो यस्य तत् । 2 ) अपि सरिदधिपतीत्यत्र कमलनिलयामिति - लक्ष्मीम् । 3 ) स किं वदेत्यत्र उन्नत इति - उन्नते पुंसि । उषिता जलधामनीति - चतुर्थः पादः काका पठनीयः । नूनमुषिता जलधामनि । एभिः कारणैः । डलयोरैक्यम् । जडेति - जलस्थापि नीवसमाश्रयो भवति, उन्नते प्रदेशे स्थितिर्न भवति । 1 १ शुभावा D. २ चित्रगति: ABCD. ३ उषिला A. ४ मणिरागः BN. For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy