________________
द्वितीयोऽध्यायः।
पक्को मभस्गा मत्ता धैः॥ १०७॥ मभसगाः । धैरिति चतुर्भिर्यतिः । यथा
"आताम्रत्वं वपुषि दधानो, घूर्णन् पृथ्वीतलपतनेच्छुः ।
द्राग्वारुण्यां निहितकरोऽयं, मत्तावस्थां प्रथयति भानुः ॥ १०७.१ ।। इयं च यद्यपि "वानवासिकायामन्तर्भवति तथापि विशेषसंज्ञार्थमुक्ता । एवमन्यत्रापि" ॥ १०७.१ ॥
यज्गाः पतिका ॥१०८॥ रयजगाः। यथा
"भ्रूविलासदूरीकृतोल्लसत्-, कामकार्मुका कान्तिशालिनीम् । मञ्जुगुञ्जिमञ्जीरराजितां, पश्य कामिनीपतिकामिमाम् ॥ १०८.१
मस्जगाः शुद्धविराट् ॥ १०९॥ "सम्यग्ज्ञानचरित्रपात्रतां, यो दधे भुवनैकबान्धवः । त्रैलोक्यस्पृहणीयतां गतः, सत्यं शुद्धविराडयं मुनिः ॥ १०९.१ ॥
मन्यगाः पणवो डैः॥११०॥ मनया गुरुश्च । डैरिति पञ्चभियतिः। यथा
"स्याद्वादामृतमुदिते चित्ते, शास्त्रोक्तिः कटुरितरा भाति ।
एवं संसदि चतुरङ्गायां, जल्पामो जयपणवं दत्वा ॥ ११०.१ ॥ कुवलयमालेति भरतः । केचित्तु यगणस्थाने संगणं मन्यन्ते ॥ ११०.१॥
रजंगा मयूरसारिणी ॥ १११॥ रजरा गुरुश्च । यथा
"या घनान्धकारडम्बरेषु, प्रीतमानसा विसर्पतीह ।
क्षोभयन्त्यपि क्षणाद्भुजंगान् , संत्यजेन् "मयूरसारिणी ताम् ॥ १११.१ ॥ 1)आताम्रत्वमित्यत्र वारुण्यामिति-वरुणो देवता अस्याः सा वारुणी पश्चिमा, वरुणात्समुद्रादागता वारुणी सुरा च तस्याम् । निहितकर इति-कराः किरणा हस्ताश्च । 2)वानवासिकायामन्तर्भवतीति-द्वादशश्च वामवासिका । पादचतुष्टये द्वादशे नवमे च लघौ वानवासिकेति भावः। 3) एवमन्यत्रापीति-यत्र पदेन सहशरूपं पदं समायाति तत्र विशेषसंज्ञायै न दूषणाय। 4) भ्रूविलासेत्यत्र मञ्जुगुञ्जीति-मञ्जु मनोहर यथा स्यादेवं गुअन्ति ध्वनन्तीत्येवंशीलानि मीराणि नूपुराणि तैः राजितां शोभिताम्। 5) सम्यग्ज्ञानेत्यत्र शुद्धविराडिति- शुद्धः सन् विराजते । क्विप् । 6) स्याद्वादेत्यत्र चतुरङ्गायामिति-चत्वारि वादिप्रतिवादि-सभ्य-सभापतिरूपाणि अङ्गानि यस्याः। जयपणवमिति-जयपटहम् । 7) या घनाम्धकारेत्यत्र घनानि निचितानि अन्धकारडम्बराणि, पक्षे मेघान्धकारडम्बराणि तेषु । क्षोभयन्त्यपीति-अपिशब्दो भुजंगानित्यत्र योज्यः । भुजंगानिति - गणिकापतीन् , पक्षे सर्पान् । 8) मयूरसारिणीमिति - मयूरवत्सरति गच्छतीत्येवंशीला । कर्तर्णिन् । तामिति-स्त्रियमिति भावः। (मयूरसारिणी अभिसारिकाम् Tippana in P.)
१ यतिः dropped in A. २ मत्वावस्थां B. ३ DP add मसजगाः । यथा ४ म्यगाः RFGH. . ५स्याद्वामृदात A. ६प्रीविमानसा B.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org