SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम्। तभ्या रुचिरा ॥१०॥ तभयाः। यथा नाश्रायि यैश्चरणपद्म-, द्वन्द्वं तव क्षणमपीश । तैराश्रितं वनमजस्र-, दावज्वलत्तर चिराय ॥ १००.१ ॥ नस्या विशाला ॥१०१॥ नसयाः। यथा नृपतिलक मातु कीर्तिस् , तव भुवि कथं तु यस्याः। भवति सकला त्रिलोकी, यदियमपि नो विशाला ॥ १०१.१ ॥ तन्मा मकरलता ॥ १०२॥ तनमाः। यथा "भैमे भवदरिनारीणाम् , आर्द्राञ्जननयनासौधैः । आसूत्रि कुचतंटे भ्रष्टैर, नव्या मकरलताभङ्गिः ॥ १०२.१ ॥ नज्याः शशिलेखा ॥ १०३॥ नजयाः। यथा कलयति पाण्डुरभावं, तव विरहे सुतनुः सा । सुभग यथा दिवसादौ, गलितरुचिः शशिलेखा ॥ १०३.१ ।। नौ सो लघुमणिगुणनिकरः॥ १०४॥ यथाअपरमणिगुणगणः, सरिदधिप तव कियान । हरिहृदि विलसति यल, लघुमणिगुणनिकरः ॥ १०४.१ ।। __मसाः सिंहाक्रान्ता ॥१०५॥. मभसाः। यथा त्वदृष्टेयं भवति विभो, दीना प्रत्यर्थिनृपचमूः । राहुग्रस्तेव शशिकला, सिंहाक्रान्तेव मृगवधूः ॥ १०५.१ ॥ रजाः कामिनी ॥ १०६॥ रजराः । यथा "यत्प्रसादतो जयत्ययं, पुष्पसायको जगत्रयम् । उल्लसन्नवीनविभ्रमास् , ताः स्तवीमि हन्त कामिनीः ॥ १०६.१ ॥ तरंगवतीत्यन्यः॥१०६.१ ॥९।१९ ॥ 1) भैमे भवदरीत्यत्र भीमस्य वृद्धमपत्यं भैमिर्जयसिंहदेवस्तस्य संबोधनम् ।भाजनानि च तानि नयनानि तेषामस्त्राणि । आसूत्रीति-निर्मिता । मकरलताभङ्गिरिति-मत्स्याकृतिपत्रलतारचना। 2)यवसादत इत्यत्र पुष्पसायक इति-अनङ्गः । विभ्रमा विलासाः। १ कुचतारभ्रष्टैः B. २ मभसाः P. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy