________________
द्वितीयोऽध्यायः।
नरा भद्रिका ॥ ९४॥ रनराः। यथा
"पुण्यपापजलवर्धिते, सौख्यदुःखलतिके स्वयम् । तज्जहीहि 'परिविप्लवं, साधुता हृदय भद्रिका ॥ ९४.१ ॥ नौ र उपच्युतम् ॥ ९५॥
यथा"नृप कुरु करुणां जने, परिहर खलसंगमम् । विमृश सुरबिमानतस्, त्रिदशपतिमुपच्युतम् ॥ ९५.१ ॥
स्जसा अक्षि ॥ ९६॥ सजसाः। यथा. "विषमास्त्र एष इति यत् , कवयो वदन्ति तदसत् । प्रहरत्ययं हि मदनः, सुतनो तवाक्षिललितैः ॥ ९६.१ ॥ मः सौ कनकम् ॥ ९७॥
यथा"मिथ्यादर्शनदिग्धमनाः, पापं धर्मधिया मनुते । गाढोन्मत्तरसान्धदृशां, मृत्पिण्डोऽप्यथवा कनकम् ॥ ९७.१ ॥ सौ मस्तारम् ॥ ९८॥
यथा"सकलासुमतां रक्षायै, यतितव्यमितीयत् तत्त्वम् । रसवादविदां तत्सारं, यदि वार्तिक ! रक्तं तारम् ॥ ९८.१ ॥
सिः सौम्या ॥ ९९॥ सिरिति सगणत्रयम् । यथा
निजजीवितमात्ररसात् , कृतनिष्कृपकर्मतते । मृगयामधुमधरते, कुरु धर्ममसौम्यमते ॥ ९९.१ ॥
1) पुण्यपापेत्यत्र जलवर्धिते इति-अन्यापि लता जलसिक्ता वृद्धिं याति तथेयम् । तजहीहीतितस्मात् त्वं त्यजेति योगः। परिविप्लवमिति-चित्तोद्वेगम् । साधुता सजनतेति भावः 2) नृप कुरु करुणामित्यत्र त्रिदशपतिमपच्युतमिति- इन्द्रोऽपि स्वर्गाद् भ्रष्टः इति हेतोः का गतिः तवेति भावः। 3)विषमास एष इतीति-विषमाणि पञ्चसंख्याकानि, पक्षे दुःसहानि अस्त्राणि यस्य सः। अक्षिललितैरिति-लोचनचेष्टितैः कटाक्षबाणैरिति भावः। 4) मिथ्येत्यत्र गाढोन्मत्तरसान्धदृशामिति-गाढमुन्मत्तरसेन धत्तरकरसेनान्धा विलसा ग येषां तेषाम् । 5) सकलासुमेत्यत्र वार्तिकेति-वार्ता प्रयोजनं अस्य, इकण, तस्य संबोधनं हे वार्तिक रसवादिन् । रसवादविदां इयत् सारं रक्तं तानं तारं रूप्यं भवति ।
१ परविप्लवं (परकृतं सुखं दुःखं च rippana ) B. परवि. corrected to परिवि P. २ मृत्पिण्डोऽथवा A. ३ इति यत् A. ४ तारं रक्तं A.
४ छन्दो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org