________________
b
छन्दोऽनुशासनम् । बृहत्यां भो मौ वक्त्रं डैः॥८८॥ डैरिति पञ्चभिर्यतिः । यथा
बिभ्रमसारभ्रूविक्षेपं, मन्मथलीलालीलागारम् । कस्य न चित्ते कुर्यात् क्षोभ, बालकुरङ्गाक्षीणां वक्त्रम् ।। ८८.१ ॥ नो रौ बृहतिका ॥ ८९॥
यथा'विशदवृत्तलब्धात्मनः, शुचियशोयते पते । तव कमण्डलुर्वारिधिर्, बृहतिका च मन्दाकिनी ॥ ८९.१ ॥
नसा हलमुखी ॥९॥ रनसाः। यथा
दन्तुरं कपिशनयनं, यन्मुखं विकटचिबुकम् । तां स्त्रियं सुखमभिलषन् , दूरतस्त्यज हलमुखीम् ॥ ९०.१ ॥ नौ मो भुजगशिशुसृता ॥ ९१॥
यथा'नयनविलसितैरस्याः, कथमिव बत मूर्छा ते । .
भुजगशिशुसृता यद्वा, ऽवगतमुरगकन्येयम् ॥ ९१.१ ॥ वक्रगतेरित्यर्थः। शिशुपदस्य साभिप्रायत्वात् । यथा च
अभ्यस्यता तु तरुणीगतिवक्रिमाणमुन्मूलिताः फणिशिशो भवतापराधाः ॥ ९१.२ ॥
इति । मधुकरिकेति भरतः ॥ ९१.२ ॥ भजसा उदयम् ॥ ९२॥ .
यथा'सुभ्र भवदीयवदने, सत्यपि नितान्तरुचिरे । नित्रप इवैष सहसा, वाञ्छति शशाङ्क उदयम् ॥ ९२.१ ॥
भौ र उत्सुकम् ॥ ९३ ॥
यथा
आपदि दीनमनोरथं, संपदि हर्षपरायणम् । मा कुरु मानस चापलं, संस्मर तत्त्वैमनुत्सुकम् ॥ ९३.१ ॥
mannaam
. 1) विशदवृत्तेत्यत्र शुचियशोयतेरिति-पवित्र उज्वलश्च यश एव यतिस्तस्य । बृहतिकेति प्रच्छादनपटी। 2) नयनविलसितैरित्यादि-बतेति कोमलामन्त्रणे । भुजगशिशुसृतेति - भुजगशिशोरिव सृतं गमनं यस्याः। 3) त(य)था चेति-शिशुपदस्य साभिप्रायत्वे संवादकमाह - अभ्यस्यतेति । तरुणीगतिकौटिल्यं कुर्वता त्वया संमुख मम हर्षों जायते इत्यपराधोन्मूलनम् । 4) सुभ्र भवदीयेत्यत्र सुभ्र इति-भ्रूसमानार्थो भ्रशब्दोऽप्यस्ति तत ऊन् । अन्यथा उकारान्तत्वाभावाद् 'उतो प्राणी' त्यादिना सूत्रेणोञ् न स्यात् । निस्त्रप इति निर्लजः ।
१ सुताद्यद्वा P. २ तथा च com. ३ तरणी N. ४ उन्मूलितात् A. ५ तत्वम० N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org