________________
द्वितीयोऽध्यायः।
न्सौ गौ गुणलयनी ॥ ८४॥ नसगगाः। यथा
गुरुगुणचिता स्फीता, परिहृतरजःपुञ्जा। मुनितनुरियं साध्वी, न 'गुणलयनी साधो ॥ ८४.१ ॥
सौ ल्गौ मही ।। ८५॥ ससलगाः। यथा
भृशमात्मवतः कलाः, ननु यस्य परिस्फुटाः। स हि काश्चनपुष्पिता, सकलां चिनुते महीम् ॥ ८५.१ ॥
नौ गौ रतिमाला ॥८६॥ ननगगाः । यथा
ततिरिह करिणां ते, क्षरदुरुमदवारिः। . नृपवर जलदानाम् , इव विचरति माला ॥ ८६.१ ॥
अन्यद्वितानम् ॥ ८७॥ उक्ताद्वक्ष्यमाणाच्चान्यत् समवृत्तं छन्दो वितानसंज्ञम् ।
यथात्वयि तेजोभिरशेषं, जगदुद्द्योतयतीदम् । उदयत्येष इदानीं, सविता नाथ मुधैव ॥ ८७.१ ॥
तथाकङ्कालमालभारिणं, कन्दर्पदर्पदारिणम् । संसारबन्धमोचनं, वन्दामहे त्रिलोचनम् ॥ ८७.२ ॥
तथातस्याः स्मरामि सुन्दरं, चन्द्रोपमानमाननम् । कन्दर्पचापभङ्गुर-, भ्रूविभ्रमोपशोभितम् ॥ ८७.३ ॥
तथातृष्णां त्यज धर्म भज, पापे हृदयं मा कुरु ।
इष्टा यदि लक्ष्मीस्तव, शिष्टाननिशं संश्रय ॥ ८७.४ ॥ इत्यादि ॥ ८॥१६॥ 1) गुणलयनीति-जवनिका । 2) उक्ताद्वक्ष्यमाणादिति-अस्यां अष्टाक्षरायां जातौ तृतीयाध्याये प्रतिपादितात् वक्त्रादिप्रकरणाच्चान्यत् । 3) कङ्कालमालभारिणमित्यत्र शरीरास्थिपञ्जरं कङ्कालं तस्य माला तां बिभर्ति इत्येवंशीलम् । 'मालेषीकेष्टकस्यान्तेपि भारितूलचिते' इति सूत्रेण मालाया हस्वः । इदं नारांचनानि पूर्वोक्त छन्दसि अन्तर्भवति । परं यदा हादिसंयोगः समाश्रीयते तदा वितानमध्ये पठ्यते । अथवा पर्यायान्तरं वृत्तद्वयस्य परोक्तरूपकस्य इमे वृत्ते । तेषां मते नाराचं छन्दो नास्ति । तेन वितानेन तु भवतो नाराचमस्ति । यतो नाराचगणा अत्रापि सन्ति ततो वितानलक्षणाभावात् कथं वितानम् । अत्राहगणभेदापेक्षया इमे बिताने उक्ते । अभयोः त्रौ लगौ नाराचमिति नाराचत्वेऽहादिसंयोगे इति भणनात् । कन्दर्पत्यादौ गुरुत्वाभावेन वितानत्वम् ।
१ दर्पहारिणं A. २ तथा Dropped in A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org