SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २२ छन्दोऽनुशासनम् । त्रौ ल्गौ नाराचम् ॥ ७८॥ तरलगाः। यथा-- 'दुर्वारवैरिदन्तिनां, कुम्भस्थलेषु निश्चलः । त्वत्कीर्तिकेतुवंशवन् , नाराच एष शोभते ॥ ७८.१ ॥ म्नौ गौ हंसरुतम् ॥७९॥ मनगगाः । यथा 'मञ्जीरकणितयोग्यां, कुर्वाणं श्रवणभोग्याम् । आदत्ते बत मनांसि, यूनां हंसरुतमेतत् ॥ ७९.१ ॥ न्जौ ल्गो ललितगतिः॥ ८॥ नजलगाः । यथा मणिरसनाखनिताद्, अनुसृतहंसकुलैः। श्रितमिव शिष्यपदं, ललितगतौ सुतनोः ॥ ८०.१ ॥ रजौ गौ सिंहलेखा ॥ ८१॥ रजगगाः । यथा पर्णपातमात्रभीत, कृष्णसारपोत तात । किं विलम्बसे महात्मन् , त्वं जहीहि सिंहलेखाम् ॥ ८१.१ ॥ नौ ल्गौ प्रमाणी ॥ ८२॥ जरलगाः। यथा 'तव प्रमातुमिच्छता, यशश्चलुक्यभूपते । समग्रमानजित्वरी, जगत्रयी प्रमाण्यभूत् ॥ ८२.१ ॥ ___ मत्तचेष्टितमिति भरतः॥ ८२.१ ॥ 'र्जी ग्लौ समानी ॥ ८३ ॥ रजगलाः । यथा रागरोषमोहदोष-, दारुदावेपावकस्य । तीर्थिकैः समं जिनस्य, नो समानिका कलापि ॥ ८३.१ ॥ 1) दुरवैरीत्यत्र केतुश्छिन्ने (श्चिद्दे) पताकायाम्। 2) मञ्जीरक्कणितेत्यत्र मञ्जीरयोपुरयोर्यत् कणितं रणितं तस्य योग्या अभ्यासस्ताम् (योग्यां श्रमम् B)। 3) पर्णपातेत्यत्र पोत तातेति-पुत्रवत्सले तातः । हे कृष्णसारपोत तात । सिंहलेखामिति -सिंहस्य मर्यादाम् । 4) तव प्रमातुमित्यत्र प्रमाण्यभूदिति-प्रमाण्यभूदित्यखण्डं क्रियापदम् । 5) जौं ग्लौ समानीत्यत्र केवल-मामक-भागधेय-पापापरसमानार्येति संज्ञायां डीः। 6) समानिकेति-समान्येव स्वार्थिके के समानिका । १पोतताप्त N. २ महारत्वं ० ३इच्छता N. ४मत्तवेष्टित.N. ५दारुदाहपा०F, , Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy