SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। २१ सौ गो दीप्ता ॥ ७१॥ सगणरगणौ गुरुश्च । यथा नवसिन्दूरभासो, मुकुलाः किंशुकेऽमी । ध्रुवमाग्नेयबाणाः, रतिनाथस्य दीप्ताः ॥ ७१.१ ॥ ७।२० ॥ अनुष्टुभि त्रौ गौ विभा ॥७२॥ तरगगाः । यथा देव त्वयि क्षमानाथे, क्षीणान्यभूभुजां कीर्तिः । पूर्वाद्रिभाजि मार्तण्डे, का वा विभास्तु ताराणाम् ॥ ७२.१ ॥ र्यो ल्गावनुष्टुप् ॥ ७३ ॥ रयलगाः । यथा कुर्वते विवेकारतिं, ये विरागहेतुष्वपि । ते पठन्ति चित्रं मुहुर्, बालिशा अनुष्टुधिया ॥ ७३.१ ॥ गीर्गीविद्युन्माला ॥ ७४ ।। समानेनैकादिरिति वचनाद् गीरिति गचतुष्टयं गृह्यते । मौ गाविति तु न कृतं चतुर्भिश्चतुर्भिर्यथा विरतिआयेतेति । यथा सत्यं रम्याभोगा भोगाः, कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्तु प्राज्ञा यस्माद्, आयुर्विद्युन्मालालोलम् ॥ ७४.१ ॥ भौ गौ चित्रपदा ॥७॥ यथा'व्योमनि सागरतीरे, पर्वतशृङ्गनिकुञ्जे । भ्राम्यति भीमकुलेन्दो, चित्रपदा तव कीर्तिः ॥ ७५.१ ॥ ब्रौ ल्गौ सुमालती ॥७६ ॥ नरलगाः । यथा परिहृतोत्पलावली, कनककेतकी तथा । भ्रमर मालतीकृते, तदिति सा सुमालती ॥ ७६.१ ॥ भ्तौ ल्गौ माणवकं धैः ॥ ७७॥ भतलगाः । धैरिति व्यादिर्गादिरिति वचनाच्चतुर्भिरिति लभ्यते । यतिरिति चोपतिष्ठते । तेन चतुर्भिर्यतिरिति सिद्धम् ॥ यथा *शीतरुजान्योऽन्यरणद्, दन्तरवैर्विस्वरकम् । साम पठन् माणवको, ऽशासि मुहुर्यत्र शुकैः ॥ ७७.१ ॥ 1) व्योमनि सागरेत्यत्र चित्रपदेति -चित्राणि पदानि, स्यादित्याद्यन्तरूपाणि स्थानानि वा यस्याः सा। पक्षे या भ्रमति सापि चित्राणि पदानि पदन्यासा यस्या एवंविधा स्यात् । 2 शीतरुजान्योन्येत्यत्र विस्वरक अव्यक्तम् । शुकैरिति - एतावता यत्र पुरे शुका अपि विद्यापारगाः सन्ति तदा मनुजानां का कथा । १पूर्वादिभाजि N. २ गीगी वि. A. गीगी वि० ०. ३ गीति ABOP. mmmmmmmmmmmmmmm Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy