________________
२०
Jain Education International
छन्दोऽनुशासनम् ।
चपलेत्यन्ये । द्रुतर्गतिरिति भरतः ।। ६३.१ ।। जौ गः शारदी ॥ ६४ ॥
भणजगणौ गुरुश्च । यथा
उज्वलनिशाकरा, चारुकमलाकरा । कस्य न मनोरमा, श्रीभवति शारदी ॥। ६४.१ ॥ नगा मधुकरिका ॥ ६५ ॥
तगणनगणौ गुरुश्च यथा
पान्थ श्रय दयितां प्राप्तो मधुसमयः ॥ गायन्त्यनुविटपं, प्रीता मधुकरिकाः ।। ६५.१ ।। वज्रमित्यन्यः ।। ६५.१ ॥
स्जौ गो विमला ॥ ६६ ॥
सगणगणौ गुरुश्च । यथा - समशत्रुमित्रता-, मवलम्ब्य निर्ममः । भज वीतरागतां, विमलात्मको भव ।। ६६.१ ॥ ज्रौ गः सुभद्रा ॥ ६७ ॥
जगणरगणौ गुरुश्च । यथा
कुमारपाल देव, त्वदीयविक्रमेण । महौजसः सुभद्रा, पतेः स्मृतं न केन ॥ ६७.१ ॥ न्यौ गः कुमुद्वती ॥ ६८ ॥
नगणयगणौ गुरुश्च । यथा
पतिविरहे यान्य-, मुखमपि नापश्यत् ।
कलयति सा श्लाघाम्, इह कुमुदिन्येका ।। ६८.१ ॥ सौ गो मुदिता ॥ ६९ ॥
गणगणौ गुरु । यथा -
लतानां कलिकाभिः प्ररोहत्पुलकेव । वसन्तागमनेऽस्मिन्, वनश्रीर्मुदितेयम् ॥ ६९.१ ॥ नौ गो मनोज्ञा ॥ ७० ॥
नगणरगणौ गुरुश्च । यथा
१ द्रुतगारिति 4.
भुवनजैत्रमंत्रं, रतिपतेरधीते । पिकगिरा मधुश्रीर्, अतिमनोज्ञयासौ । ७० १ ॥
२ भरेगणजगणौ A. ३ मधुकरिका A ४ निर्मम N.
For Personal & Private Use Only
५ महोजः सु० A.
www.jainelibrary.org