________________
द्वितीयोऽध्यायः।
तगणसगणौ गुरुश्च । यथा
कुन्दे विचकिले वा, मन्दारकुसुमे वा। प्रीत्या मधुरसाढये, भ्रान्ता भ्रमरमाला ॥ ५७.१ ॥ रौ गो हंसमाला ॥५८॥
यथाशैवलालीनिराशा, पङ्कजे बद्धवासा । किं बकोटावलीयं, हन्त सा हंसमाला ॥ ५८.१ ॥
भौ गः कलिका ॥ ५९॥
__यथा'स्पर्शनमात्रवशाद् , या मकरन्दमुचा । किं भ्रमर भ्रमता, सौ कलिता कलिका ॥ ५९.१ ॥
सोपानमित्यन्यः । भोगवतीति भरतः॥ ५९.१ ॥
भ्सौ गो विधुवक्त्रा ॥ ६०॥ भगणसगणौ गुरुश्च । यथा
अह्नि विरहतप्ता, रात्रिमभिलषन्ती । उद्यति विधुबिम्बे, म्लायति विधुवक्त्रा॥ ६०.१ ॥
म्भौ गः सरेलम् ॥ ६१॥ मगणभगणौ गुरुश्च । यथा
पापाभ्यासात्कुटिलं, चेतो रौद्रं भजते । शास्त्राभ्यासव्यसनाद्, धर्म्य ध्यानं सरलम् ॥ ६१.१ ॥
नौ गश्चित्रम् ॥ ६२॥ भगणनगणौ गुरुश्च । यथा
'कीर्तिरिह भवतः, कुन्दकुसुमसमा । रञ्जयति हृदयं, चित्रमिदमधिकम् ॥ ६२.१ ॥ नौ गो हरिविलसितम् ॥ ६३॥
यथासपदि बलिनृपान्, समिति नियमयन् । प्रथयसि न विभो, न हरिविलसितम् ॥ ६३.१ ॥
1) स्पर्शनमात्रेत्यत्र मकरन्दमुचेति-मकरन्दं मुञ्चति इति मकरन्दमुचा । मूलविभुजेति कः । 2) कीर्ति रिहत्यत्र चित्रमिति-शुभ्रा सती हृदयं रक्तयतीति चित्रं पक्षे रागं प्रापयतीति भावः।
१ रगणद्वयं गुरु च । यथा ०. २ भगणद्वयं गुरुश्च । यथा P. ३ सा dropped in A, ४ भागवतीति A, ५ सरलं dropped in A,
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org