SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । उष्णिहि मौ गो गान्धर्वी ॥५२॥ यथास श्रेयांसि श्रेयांसः, श्रीमान्देवः पुष्णातु । क्षोभायाभूद्यञ्चित्ते, गान्धर्वी न क्रीडापि ॥ ५२.१ ॥ जौ ग उष्णिक ॥५३॥ रगंणजगणौ गुरुश्च । यथा उष्णिहीव संसृतौ, स्याद्भवं रजो गुरुं । नो भवेद्यदि क्षितौ, श्रीजिनेन्द्रशासनम् ॥ ५३.१ ॥ शिखेति भरतः ॥ ५३.१ ॥ ज्सौ गः कुमारललिता ॥५४॥ जगणसगणो गुरुश्च । यथा - 'नरेन्द्रगणसेना-,वृतः प्रथितशक्तिः । दधासि नृपते त्वं, कुमारललितानि ॥ ५४.१ ॥ अत्र केचिद् द्वाभ्यां विरतिमिच्छन्ति । इदं वदनपगं, प्रिये तव विभाति । इह व्रजति मुग्धे, मनो भ्रमरतां मे ॥ ५४.२ ॥ म्सौ गो मदलेखा ॥ ५५॥ मगणसगणौ गुरुश्च । यथा यावत्केसरिनादो, नायाति श्रुतिमार्गम् । तावद्गन्धगजानां, गण्डे स्यान् मदलेखा ॥ ५५.१ ॥ रौ ग उद्धता ॥५६ रगणसगणौ गुरुश्च । यथा या बभूव सुदर्पा, वैरिणां नृप सेना । त्वत्प्रतापविलासे, सोद्धतापि गतश्रीः ।। ५६.१ ।। त्सौ गो भ्रमरमाला ॥५७॥ 1) उष्णिहीव संसृताविति-यथा उष्णिहि छन्दसि रजो गुरु स्यात् । कोऽर्थः। रात् जः रजः गुरु अक्षरं रगणो जगणो गुरुश्चेति लक्षणं यथा उष्णिहि छन्दसि भवति तथा संसारेऽपि रजः पापलक्षणं गुरु महत् स्यात् यदि जिनेन्द्रशासनं न स्यादिति भावः । 2) नरेन्द्र गण] सेनावृत इति-नरेन्द्रगणानां राजसमूहानां सेना । पक्षे नरेन्द्रभूतानां गणानां प्रमथादीनाम् । प्रथिता शक्तिः सामर्थ्य यस्य । पक्षे शक्तिः प्रहरणम् । कुमारः स्कन्दः । १ रजौ A. २ गुरुः OEN. ३ गुरु यथा A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy