SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। भगणरगणौ । यथा त्वद्वदनाग्रतो, मण्डलमैन्दवम् । संप्रति लक्ष्यते, श्रीलंघु मालिनी ॥ ४५.१ ॥ स्यौ विमला ॥ ४६॥ सगणयगणौ । यथा निपतन्ति यस्मिन् , सरला दृशस्ते । तमुपैति लक्ष्मीर्, विमला च कीर्तिः ॥ ४६.१ ॥ त्रौ जला ॥४७॥ तगणरगणौ । यथा जातास्तव द्विषत्-, स्त्रीणां दृशो नृप । अश्रान्तमश्रुभिः, पर्यस्तकजलाः॥ ४७.१ ॥ म्यो 'सुनन्दा ॥४८॥ मगणयगणौ । यथा श्रीमत्पार्श्वनाथ, त्वत्पादाब्जयुग्मे । भूया निर्विकल्पा, भक्तिर्मे सुनन्दा ॥ ४८.१ ॥ भ्मौ विक्रान्तां ॥४९॥ भगणमगणौ । यथा नो भटसिंहास्ते, त्वद्रिपुपुर्यन्तः । वासरति सिंहाः, बिभ्रति विक्रान्ताः ॥ ४९.१ ॥ स्मौ सूचीमुखी ॥५०॥ सगणमगणौ । यथा अधुना पञ्चेषोर, नवतीक्ष्णास्त्रत्वम् । इह जज्ञे सूची-, मुखया केतक्या ॥ ५०.१ ।। यमौ शिखण्डिनी ॥५१॥ यगणमगणौ । यथा हहा पान्थस्त्रीभिः, पिधीयन्ते कर्णाः । मुहुप्तन्वाने, शिखण्डिन्यारावम् ।। ५१.१ ॥ ६।१९ ॥ 1) सुनन्दाच्छन्दसि सुनन्दा इति-सुष्टु नन्दयतीति । लिहाद्यच् संज्ञाया अभावात् नन्यायनो न भवति कृदन्तप्रथमपादे। 2) विक्रान्तायां सिंहा इति-हे राजन् सांप्रतं त्वद्रिपुपुरीमध्ये न ते भटसिंहाः किं तु शून्यत्वात् सिंहा एव विक्रान्ताः सांप्रतं दृश्यन्ते । शून्यानीति भावः । १ श्रीर्लघु. N. २ असुभिः ३ छन्दो० . A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy