________________
छन्दोऽनुशासनम् ।
न्यौ शशिवदना ॥ ३९ ॥ नगणयगणौ । यथा
मनसिजलीला-, कुलगृहभूमिः ।
कुवलयनेत्रा, शशिवदनेयम् ॥ ३९.१ ॥ मुकुलितेत्यन्यः । मकरशीर्षेति भरतः ॥ ३९.१ ॥
मौ मालिनी ॥४०॥ रगणमगणौ । यथा
केतकीसंसृष्टैः, मालतीसंपृक्तैः । पङ्कजैरर्हन्तं, मालिनी सोपास्ते ॥ ४०.१ ॥
भ्यो कामलतिका ॥४१॥ भगणयगणौ । यथा
भाति मृदुपाणि-, पल्लवमनोज्ञा। . हासकुसुमश्रीः, कामलतिकेयम् ॥ ४१.१ ॥
म्सौ मुकुलम् ॥ ४२॥ मगणसगणौ । यथा
यातोऽस्त शशभृन् , मार्तण्डोऽभ्युदयम् । व्याकोशं कमलं, नीलाब्जं मुकुलम् ॥ ४२.१ ॥
वीथीति भरतः ॥ ४२.१ ॥
नौ शफरिका ॥४३॥ नगणरगणौ । यथा
कुवलयेक्षणे, रमयतो मनः । तव विलोचने, शफरिकाचले ॥ ४३.१॥
गिरेति भरतः ॥ ४३.१ ॥
नौ कच्छपी ॥४४॥ रगणनगणौ । यथा
लक्ष्यते सरसि, चन्द्रमःसहशि । लक्ष्मकान्तिरिह, कच्छपी पयसि ॥ ४४.१ ॥
भ्रौ लघुमालिनी ॥४५॥ १ सोमपास्ते F. २ मगणौ A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org