________________
१४
छन्दोऽनुशासनम् ।
ल्गा विदग्धकः ॥ २४ ॥ रगणो लघुगुरू च । यथायौवनेन वा, कार्मणेन वा । यो न दग्धको, ऽसौ विदग्धकः ॥ २४.१ ॥
वागुरेति भरतः ॥ २४.१॥ भो गौ पङ्गिः ॥ २५ ॥
यथाफाल्गुनमासे, फुल्लवनान्ते । पावकतुल्या, किंशुकपतिः ॥ २५.१ ॥
____ अक्षरोपपदेत्यन्ये । कुन्तलतन्वीति भरतः ॥ २५.१ ॥
भ्लगा रतिः॥ २६ ॥ भगणो लघुगुरू च । यथा
साधुचरणा -, म्भोजयुगले । हन्त विदुषो, राजति रतिः ॥ २६.१ ॥ ___ जो गौ सती ॥ २७॥
यथाखभर्तृभक्ता, विशुद्धशीली । निरीहचित्ता, सती सतीयम् ॥ २७.१ ॥
शिखेति भरतः ॥ २७.१॥ लगा नन्दा ॥ २८॥ तगणो लघुगुरू च । यथा
चित्ते सरला, वेषे तरला । दाने पृथुला, नन्दा महिला ॥ २८.१ ।। - यलगा जया ॥ २९ ॥ यगणो लघुगुरू च । यथाममानीयत, मनः कान्तया । मुखेनोल्लस-, जिताम्भोजया ॥ २९.१ ॥
म्लगाः सावित्री ॥ ३०॥ मगणो लघुगुरू च । यथाजैनेन्द्रं मुखं, दिश्याद्वः सुखम् । जिग्ये येन सा, सावित्री प्रभा ॥ ३०.१ ॥ सो गौ घनपतिः ॥३१॥
यथाक्रियया हीनं, यदिह ज्ञानम् । रहिताम्भोभिर्-, घनपतिः सा ॥ ३१.१ ॥
न्लगा अभिमुखी ॥ ३२॥ नगणो लघुगुरू च । यथा
शशिवदना, मृगनयना । अभिसरति, त्वदभिमुखी ॥ ३२.१ ॥ १ लघुर्गुरुश्च P. २ विसुद्धसीला B, ३ लगौ A, ४ लगौ .. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org