________________
द्वितीयोऽध्यायः।
भगौ' सुमुखी ॥ १६॥ भगणो गुरुश्च । यथाक्षीणतनुर्, मद्विरहे । याश्रुमुखी, सौ सुमुखी ॥ १६.१ ॥
ललितेति भरतः ॥ १६.१॥ गौ विलासिनी॥१७॥ जगणो गुरुश्च । यथान लभ्यते, घनस्तनी । धनं विना, विलासिनी ॥ १७.१ ॥
___ जयेति भरतः ॥ १७.१॥ गौ समृद्धिः ॥ १८॥ रगणो गुरुश्च । यथापुण्यपात्रे, शुद्धचित्तैः । या प्रदत्ता, सा समृद्धिः ॥ १८.१ ॥
पुण्यमिति भरतः ॥ १८.१ ॥ न्गौ मृगवधूः ॥ १९॥ नगणो गुरुश्च । यथातव पुरो, नयनयोः । किमिव सा, मृगवधूः ॥ १९.१ ॥
गौ व्रीडा ॥२०॥ यगणो गुरुच । यथा
. तथा तेन, कृतं भ; । यथा चित्ते, ऽभवद् व्रीडा ॥ २०.१ ॥ ... गौ सुमतिः ॥ २१ ॥ सगणो गुरुश्च । यथा___ भज धर्म, वद सत्यम् । त्यज पापं, सुमतिः सन् ॥ २१.१ ॥
भ्रमरीति भरतः ॥ २१.१ ॥ त्गौ सोमप्रिया ॥२२॥ तगणो गुरुश्च । यथा.. विभ्राजते, खे रोहिणी । चारुद्युतिः, सोमप्रिया ॥ २२.१ ॥ ४८॥
सुप्रतिष्ठायां रो गौ प्रीतिः॥२३॥
. यथायस्य नैवार्थाः, नैव कामिन्यः । नापि वैराग्यं, तस्य का प्रीतिः ॥२३.१ ॥ १भगौ N. २ सा सुखी । ललिलतेति भरतः A. ३ जगौ A. ४ पुण्यं. to भरतः dropped in B; पुष्पमिति PP. ५Sutra 22.with com, dropped in BFP. .. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org