________________
अथ द्वितीयोऽध्यायः।
छन्दः ॥१॥ आशास्त्रपरिसमाप्तेः छन्द इत्यधिकृतं वेदितव्यम् ॥१॥
पादः॥२॥ पाद इत्यधिकार आशास्त्रपरिसमाप्तेः ॥२॥ इदानीमेकाक्षराद्याः षड्विंशत्यक्षरावसानाश्छन्दोजातीराह
एकाक्षरोक्ता जातिः॥३॥ एकाक्षरपादा उक्ता नाम भेदसंग्रहात्मिका जातिः ॥३॥
अत्युक्ता-मध्या-प्रतिष्ठा-सुप्रतिष्ठा-गायत्री-उष्णिम् - अनुष्टुब् -बृहती-पति-त्रिष्टुब् - जगती-अतिजगती. शकरी-अतिशकरी-अष्टि- अत्यष्टि-धृति-अतिधृतयः
एकैकवृद्धाः ॥४॥
उक्तात एकैकाक्षरवृद्धपादा अत्युक्तादयः । तत्र यक्षरा अत्युक्ता जातिः । त्र्यक्षरा मध्या । चतुरक्षरा प्रतिष्ठा । एवं यावदेकोनविंशत्यक्षरा अतिधृतिः॥४॥
कृतिः प्राविसमभ्युदश्च ॥५॥ प्र-आङ्-वि-सम् - अभि- उद् इत्येतेभ्यश्च परा कृतिरेकैकवृद्धाक्षरा । विंशत्यक्षरा कृतिः । एकविंशत्यक्षरा प्रकृतिः । द्वाविंशत्यक्षरा आकृतिः । त्रयोविंशत्यक्षरा विकृतिः। चतुर्विशैत्यक्षरा संकृतिः । पञ्चविंशत्यक्षरा अभिकृतिः । षविंशत्यक्षरा उत्कृतिः इति ॥५॥ अथासामेव जातीनामुपयोगिनो भेदानाह
उक्तायां गः श्रीः॥६॥ उक्तायां जातौ गुरुरेकाक्षरः पादः स च श्रीनामा । यथा
गी-,(ः । श्रीः, स्तात् ॥ ६.१ ॥ __ अत्युक्तायां गौ स्त्री ॥७॥
यथाभ्रातर, दृष्टा । इष्टा, सा स्त्री ॥ ७.१ ॥
पद्ममित्येके ॥ ७.१ ॥ १ एकोनविं. BFP; एकानविं. ०.२ प्रावि० च कृतिः NP. ३ उत् ABP. ४ चतुर्वि० to अभिकृतिः dropped in A. ५ एवं षड्विं. A. ६ इति dropped in A; इति यावत् ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org