________________
छन्दोऽनुशासनम् । _ तदेतत्सर्व श्रव्यपदेनैव गतार्थमिति न सूत्रितम् । अनिर्दिष्टयतिकेऽपि च छन्दसि श्रव्यैव यतिः करणीया । न पुनरेवं यथा
"तेन शशिमुखि गतेन सखि किं प्रियेण कुरु मानमपि तस्मिन् । स तव वरतनु समदनः स्वयमेव समेति चरणयुगम् ॥ १६.३३ ॥ इति ।
तथा हि
"अबह्वर्थापि मधुरा मनो हरति भारती ।
तमोनिचयसंकाशा मत्तनादेव कोकिला ॥ १६.३४ ॥ इति । त्र्यादिर्गादिः॥१७॥ त्रिचतुरादिः संख्या क्रमेण गघडादिसंज्ञा ॥ १७॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्ती संज्ञाध्यायः प्रथमः समाप्तः ॥ १ ॥ ग्रंथाग्रं १२५, अ० १८ ।
1) तेन शशिमुखीति- इयं सप्तपञ्चाशन्मात्रारूपाऽऽर्या पुनः सर्वथापि यतिरहिता। 2) अबहथेति - वृत्तत्वं च पूर्वकथागतम् । इत्याचार्य० प्रथमोऽध्यायः संपूर्णः॥
१चर. dropped in A. २त्रिचतुरादिसंख्या AP.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org