SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः । द्रष्टव्यो यतिचिन्तायां याद्यादेशः परादिवत् || ३ ब । यथा - "अच्छिन्नप्रसराणि नाथ भवतः पातालकुक्षौ यशांयद्यपि क्षपयन्ति कोकिलकुलच्छायासपत्नं तमः ॥ १६.२४ ॥ * विततघनतुषारक्षोदशुभ्रासु दूर्वा स्वविरलपदमालां श्यामलामुल्लिखन्तः ॥ १६.२५ ॥ इति । * नित्यं प्राक्पदसंबद्धाश्वादयः प्राक्पदान्तवत् ॥ ४ अ । चादिभ्यः पूर्वं यतिर्न कर्तव्येत्यर्थः । यथा - स्वादु स्वच्छं च सलिलमिदं प्रीतये कस्य न स्यात् ॥ १६.२६ ॥ इति । ‘नित्यं प्राक्पदसंबद्धा' इति किम् ?, "अन्येषां पूर्वान्तवद्भावो मा भूत् । Jain Education International यथा - मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ १६.२७ ॥ इति । * इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे ॥ १६.२८ ॥ इति । * परेण नित्यसंबद्धाः प्रादयश्च परादिवत् ॥ ४ ब । प्रादिभ्यः परा यतिर्न भवतीत्यर्थः दुःखं मे प्रक्षिपति हृदये दुःसहस्त्वैद्वियोगः ॥ १६.२९ ॥ इति । ‘परेण नित्यसंबद्धाः' इति किम् ?, अन्येभ्यः परापि यतिर्यथा स्यात् । श्रेयांसि बहुविघ्नानि भवन्ति महतामपि ॥ १६.३० ॥ " अयं च चादीनां प्रादीनां च एकाक्षरत्वेन एकाक्षराणामेव पदान्तयतौ अन्तादिद्भाव इष्यते न त्वनेकाक्षराणां पदमध्ययतौ । तत्र हि पदमध्येऽपि चामीकरादिष्विव यतेरभ्यनुज्ञातत्वात् । तत्र चादीनां यथा - प्रत्यादेशादपि च मधुनो विस्मृत भ्रूविलासम् ॥ १६.३१ ॥ इति । प्रादीनां यथा दूरारूढप्रमोदं हसितमिव परिस्पष्टमासां सखीभिः ॥ १६.३२ ॥ इति । 1) अच्छिन्नप्रसराणीति - अस्य पूर्वार्धमिदम् - अत्यासन्ननिषन्न (ण्ण) पन्नगवधूगीतोत्सवप्रक्रमे पत्युर्भोगभृतां ददन्ति किमपि प्रीतिं मुहुः श्रोत्रयोः । 2 ) अन्येषां पूर्वान्तेति - अनित्यसंबद्धानाम् । 3 ) अयं च चांदीनां इति चादयः पदस्यान्ते प्रादय आदौ यतिभाजो भवन्तीति भावः । - १ यद्या० A. २ क्षिपयन्ति A. ३ तद्वियोगः AEP ४ परा यतिः FP ५ प्रमोहं A. ६ स्पृष्टं B. २ छन्दो० For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy