SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । 'गकारादौ' इति किम् ?, पदमध्ययतिः पादान्ते मा भूत् । यथाप्रणमत भवबन्धक्लेशनाशाय नारा यणचरणसरोजद्वन्द्वमानन्दहेतुम् ॥ १६.१४ ॥ इति । पूर्वोत्तरभागयोरेकाक्षरत्वे तु पदमध्ये यतिर्दुष्यति । यथाएतस्या गण्डतलममलं गाहते चन्द्रकक्षाम् ॥ १६.१५ ॥ इति । एतासां राजति सुमनसां दाम कण्ठावलम्बि ॥ १६.१६॥ इति । सुरासुरशिरोनिधृष्टचरणारविन्दः शिवः ॥ १६.१७ ॥ इति । पूर्वान्तवत्स्वरः सन्धौ कचिदेव परादिवत् ॥ ३॥ अ। .. योऽयं पूर्वपरयोरेकादेशः स्वरः सन्धौ विधीयते स कचित्पूर्वस्य अन्तवद् भवति क्वचित्परस्य आदिवत् । उभयादेशत्वात् । यथा पित्रोः पुत्रः पितुश्च मातुश्च भवति । तत्र पूर्वान्तवद्भावो यथा "स्यादस्थानोपगतयमुनासंगमेवाभिरामा ॥ १६.१८ ॥ "जम्भारातीभकुम्भोद्भवमिव दधर्तः ॥ १६.१९ ॥ इति । तथादिक्कालाधनवच्छिन्नानन्तचिन्मात्रमूर्तये ॥ १६.२० ॥ इति । पराँदिवद्भावो यथा स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षीत् ॥ १६.२१॥ इति । शूलं तूलं तु गाढं प्रहर हर हृषीकेशकेशोऽपि वक्र श्चक्रेणाकारि किं ते० ॥१६.२२ ॥ इति । अत्र हि स्वरस्य परादिवद्भावे व्यञ्जनमपि तद्भक्तत्वात् तदादिवद्भवति । 'यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ।' इति अन्तादिवद्भावविधावपि संबध्यते । तेन ___ अस्या वकालमवजितपूर्णेन्दुशोभं विभाति ॥ १६.२३ ॥ इत्येवंविधा यतिनं भवति । 1) स्यादस्थानोपगतेति वृत्तं मेघकाव्ये। 2) जम्भारातीभेति वृत्तं सूर्यशतके । १पदमध्ये यतिर्दुष्यति पादान्ते. A. २ पदान्ते EF. ३ कण्ठावलीति B. ४ भावो dropped in E. ५ संगमेनामि. ABP. ६ दधतः सान्द्रसिन्दूर रेणुमिति AB. ७ क्वचित्परस्यादिवत् । यथा F. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy