________________
प्रथमोऽध्यायः। - अत्रं ईश्वरमित्यस्य पूर्वमकारेण सन्धिर्न कर्तव्यः । स्पष्टविभक्तिकत्वं च अत्रैव । न त्वेवं यथा
सुरासुरशिरोरत्नस्फुरत्किरणमञ्जरी-।
पिजरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवम् ॥ १६.४ ॥ गादिच्छिन्नपदान्ते च "लुप्तालुप्तविभक्तिके' यथा
उत्तुङ्गस्तनकलशद्वया नताङ्गी लोलाक्षी विपुलनितम्बशालिनी चें ॥ १६.५ ॥ यक्षश्चके जनकतनयास्नानपुण्योदकेषु ॥ १६.६ ॥ इति । 'लुप्तालप्तविभक्तिके' इति 'यतिः सर्वत्र पादान्ते' इत्यनेनापि संबध्यते ।
___ यथानमस्तुङ्गशिरथुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥ १६.७ ॥ इति ।
तथावशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् ॥ १६.८ ॥ इति ।
कचित्तु पदमध्येऽपि गकारादौ यतिर्भवेत् । यदि पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥ २ ॥
यथा"पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशौ ॥ १६.९ ॥ इति ।
तथाकूजत्कोयष्टिकोलाहलमुखरभुवः प्रान्तकान्तारदेशाः ॥ १६.१० ॥ इति ।
तथा"हासो हस्ताग्रसंवाहनमपि तुलिताद्रीन्द्रसारद्विषोऽस्य ॥ १६.११ ॥ इति । वैरिश्चानां तथोच्चारितचतुरऋचा चाननानां चतुर्णाम् ॥ १६.१२ ॥ इति ।
खड़े पानीयमालादयति हि महिषं पक्षपाती पृषत्कः ॥ १६.१३ ॥ इति । 1)गादिच्छिन्नेति-गादिसंख्यावच्छिन्नाक्षरं पदम् । मयूरव्यंसकेति समासः । 2) लुप्तालुप्तेति-लुप्तविभक्तिकत्वं तु एकार्थ इत्यनेन न तु अनतो लुगिति । 3) उत्तुङ्गस्तनेत्यत्र- 'बिम्बोष्ठी नरवरमुष्टिमेयमध्या सा नारी भवतु मनः प्रहर्षिणीति' उत्तरार्धे पिङ्गलपाठे। इदं प्रहर्षिणीछन्दो लुप्तविभक्तिकोदाहरणम् । 4) नमस्तुङ्गेतिअन्यस्मिन्नपि मूलस्तम्भे चमरः स्यात् इति हर्षाख्यायिकायाम्। 5) पर्याप्त तप्तेत्यादि वृत्तं सूर्यशतके । 6) कूजत्कोयष्टीति वृत्तमिदं मेघकाव्ये। 7) हासो हस्ताग्रेति वृत्ते तुलितादीन्द्रसारेति-तुलिताद्रिश्वासौ इन्द्रसारो वज्रं तस्य द्विद महिषासुरः ।
१ अत्रेकारेण पूर्वस्य मकारस्य सन्धिर्न• E. २ पदाब्ज A. ३ नताङ्गीति . ४ AB add बिम्बोष्ठी नरवरमुष्टिमेयमध्या। सा बाला भवतु मनःप्रहर्षिणीति ॥ इति पिङ्गलपाठः। s also adds the same two lines, but reads 'र्षिणी ते and drops इति० पाठः। ५तमस्तुङ्ग A.६भा in स्तम्भाय dropped in A; the whole line dropped in P.७ वैरञ्चानां AE. ८ वाननानां ABCD. ९षने CN. १० वृषत्कः A,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org