________________
छन्दोऽनुशासनम् । वृत्तम् ॥ १२॥
प्राङ् मात्राछन्दोभ्यो यदभिधास्यते तद्वृत्तसंज्ञं ज्ञेयम् । "तच्च स्थिरगुरुलध्वक्षरविन्यासमिष्यते । "पाटन-संयोगयोरभावात् । मात्राछन्दांसि तु जातिरिति प्रसिद्धानि ।
यदाहु:___ पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा ॥ १२.१ ॥ वृत्तं च समाधसमविषमभेदात् त्रेधा । तत् क्रमेण लक्षयतिसमैः पादैः समम् ॥१३॥ पादैश्चतुर्भिस्तुल्यलक्षणैः समं वृत्तम् ॥ १३ ॥ समार्धमर्धसमम् ॥१४॥ यस्य तुल्ये अर्धे तदर्धसमं वृत्तम् ॥१४॥ अन्यद्विषमम् ॥१५॥ आभ्यामन्यद्विषमं वृत्तम् ॥१५॥ श्रव्यो विरामो यतिः॥१६॥
विरमणं विरामो विश्रामः । "स श्रुतिसुखो यतिसंज्ञः । सा च तृतीयान्तेषु गघादिनिर्देशेषु उपतिष्ठते । गादयश्च साकाङ्क्षत्वात् यतिरित्यनेन संबध्यन्ते । तेन गाद्यवच्छिन्नरक्षरैर्यतिः क्रियते इत्ययमर्थः सिध्यति । तत्रैषा यत्युपदेशोपनिषत् पठ्यते -
यतिः सर्वत्र पादान्ते श्लोकार्धे तु विशेषतः ।
गादिच्छिन्नपदान्ते च लुप्तालुप्तविभक्तिके ॥ १॥ तत्र यतिः सर्वत्र पादान्ते' यथा
नमोऽस्तु वर्धमानाय स्पर्धमानाय कर्मणा।
तजयावाप्तमोक्षाय परोक्षाय कुतीर्थिनाम् ॥ १६.१ ॥ इति । न पुनरेवं यथा
नमस्तस्मै महादेवाय शशाङ्कर्धिधारिणे ॥ १६.२ ॥ इति । "श्लोकार्धे तु विशेषतः' इत्यत्र सन्धिकार्याभावः स्पष्टविभक्तित्वं च विशेषः । यथा
नमस्यामि सदोद्भूतमिन्धनीकृतमन्मथम् ।
ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ॥ १६.३ ॥ 1) तच्च स्थिरगुरुलध्वक्षरेति-आर्यादौ हि गुरुलच्चोय॑भिचारिता न त्वत्र समे छन्दसि । लघुद्वयस्थाने गुरुर्न भवति गुरुस्थाने लघुद्वयं न भवतीति भावः। 2) पाटनसंयोगयोरभावादिति-गुरोर्लघुद्वयकल्पना पाटनं लघुद्वयस्य गुरुकल्पना संयोगः। 3)स श्रुतिसुखो यतिसंज्ञः। श्रुति सुखयति श्रुतिसुखः । कर्मण्यण् । 4) यतिः सर्वत्र पादान्ते इति-पूर्वापरपादयोः समासेऽपि पादान्ते यतिः क्रियते। 5) श्लोकार्धे तु समासोऽपि न भवति ।
१ लघुक्षर० A. २ तद dropped in N. ३ विषमं वृत्तं AB. ४ all the four words dropped in B. ५सा च तृतीयान्तैर्गाद्यवच्छिन्नरक्षरैः क्रियते F. ६ तेन dropped in CRNP. ७ गकारादिपदान्ते च P. ८ शसांका• B. ९ नमस्यानि B,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org