________________
प्रथमोऽध्यायः। - एषु अतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हेतुः। तीव्रप्रयत्ने तु भवत्येव गुरुः। यथा- 'बर्हमारेषु केशान्' इत्यादि । केचित्तु xक :पयोरपि परत्र स्थितयोः पूर्वस्य लघोर्गुरुत्वं नेच्छन्ति । यथा
प्रणतसुरवरधरणनृपः परमविजितमदमदनजननमरण । __ सकलुषजनसलिलकतकर कनकमय सुतनु जिनवर वृषभ जय ॥ ७.७ ॥ दीर्घप्लुतौ ॥८॥ द्विमात्र-त्रिमात्रौ वर्णी गसंज्ञौ भवतः वक्रौ च ॥८॥ स द्विमात्रः॥९॥
स गसंज्ञो द्विमात्रो भवति । "एकमात्रे असती मात्रा आरोप्यते । त्रिमात्रे सती निराक्रियते ॥९॥
एदोती पदान्ते प्राकृते ह्रखौ वा ॥१०॥ पदान्ते वर्तमानौ एकार-ओकारौ प्राकृतभाषायां वा ह्रखौ भवतः । यथा
"पसगयवरुम्मूलिआएँ उड्डीणससिविहंगाए। _ धवलाई गलंति निसालयाएँ नक्खत्तकुसुमाई ॥ १०.१॥
उअ पोमेरायमरगयसंवलिआ णहयलाओं ओभरह ।'
णहसिरिकंठभट्ट व्व कंठिआ कीररिंछोली ॥ १०.२ ॥ इँ हिँ इत्येतयोः "हस्खत्वं शब्दानुशासने सानुनासिकत्वविधानात् सिद्धमिति नेहोच्यते । अपभ्रंशे त्वपदान्तयोरपि 'कादिस्थैदोतोरुच्चारलाघवम्' [सि. है. ८. ४. ४१०] इति 'पदान्ते उँ हुँ हिँ हैं काराणाम् [सि. है, ४. ८. ४११] इति च ह्रखत्वं शब्दानुशासने निर्णीतमिति नेहोच्यते ॥१०॥
तुर्योऽशः पादोऽविशेषे ॥ ११ ॥
छन्दसश्चतुर्थो भागः पादसंज्ञः अविशेषे सामान्याभिधाने । यत्र तु द्विपदीपञ्चपदी-षट्पदी-अष्टपदी चेति विशेषाभिधानं तत्र "द्वितीयाग्रंशोऽपि पादः ॥११॥
1) एकमात्रे असती मात्रारोप्यत इति-अन्तलघौ एकमात्रे असती मात्रारोप्यते। त्रिमात्रे लुते सती निराक्रियते गुरोह्निमात्रत्वेन संमतत्वात् । 2) पच्चूसगयवरुत्ति-प्रभातगजवरोन्मूलितायाः उड्डीनचन्द्रविहंगायाः श्वेतानि क्षरन्ति निशालतायाः नक्षत्रकुसुमानि । 3) उअ पोमरायत्ति-उअत्ति पश्य । पोमरायत्तिपद्मरागः । णहयलाओ इत्यत्र सूत्रं फलितम् । ओभरइत्ति-अवतरति । भट्ट व्व-भ्रष्टेव । कठिएत्ति-कण्ठाभरणम् । कीररिंछोलीति-शुकश्रेणिः। 4) हस्वत्वं शब्दानुशासने इति -प्राकृतलक्षणे। 5) द्वितीयाचंशोऽपि पादः । प्रथमादिरपि द्वितीयाद्यपेक्षया द्वितीयायंश उच्यते ।
१तु dropped in A. पुनर् E. २ मरणः BFP. ३ जय ॥ पथ्या AB. ४ गसंज्ञी ABP. ५पउमराय AP. ६ ओयरइ ODN, ७ सानुनासिक. to ह्रखत्वं शब्दानुशासने dropped in N, ८ तुर्योशी A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org