SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् (जानाश्रयी)। २४०-७ अधुना मधुकरबन्धुना बन्धूकेन सरजस्ककेसरेण । भवतेव जगद्वन्धुना कुलमण्डन मण्डितानि भूस्थलानि ॥ ५.६४.२ ॥ कचिद्विदारी मध्ये ॥ ५.६५॥ कचित्प्रयोगान्तर भङ्गद्विपदीगीतिकयोर्मध्ये विदारी भवति । विदारीलक्षणमुत्तरत्र वक्ष्यति । यथा अभिनवकन्दलीकुसुमकेसरलोलवरस्थलीमुखाः, ____ कुसुमितकुटैजसुरभिपरागविराजितसानुकाननाः। समदमयूरमधुरकेकारवपूरितकन्दरोदराः, ससलिलमुखरजलदमलिना गिरयो रमयन्ति मानसम् ॥ केतकसूचिभिदा मरुता, . बकुलरजांसि समुद्वहता। अभिमुखदयितजनोऽपि जनः, सोत्सुक एव बलात् क्रियते ॥ . . अवनुन्नातपरेणुना करेणुनाथमलिनेन तोयदेन । उपगिरिमुदन्तविद्युता सकलं जगदय॑ते मनोभवाय ॥ ५.६५.१ ॥ विदारी भान्ताश्चतुर्दश लघवः॥५.६६॥ [गुर्वन्ताश्चतुर्दश लघवः] प्रतिपादं भवन्ति चेत् , विदारी नाम भवति ॥ ५.६६ ॥ . मिश्रः पञ्चमः प्रायः॥ ५.६७ ॥ तस्या विदार्याः प्रतिपादं पञ्चमो लघुः पूर्वेण वा लघुना परेण वा मिश्रो गुरुर्भवति . प्रायः ॥ ५.६७ ॥ उपान्त्यै आ॥ ५.६८ ॥ प्रायः इति वर्तते । तस्या विदार्याः प्रतिपादमन्त्यस्य समीपे प्राय औंकारो भवति । अन्यत्रानियमः । सायसुरभिरजधूसरया, मृदुमलयानिलझंपितया । कामिजनो नवमालिकया, विगलितमानमनाः क्रियते ॥ ...... त्रयोविंशतिर्भङ्गुरासकम् ॥ ५.६९ ॥ भान्ता इति तु वर्तते । गुर्वन्तास्त्रयोविंशल्लघवो यथेष्टं मिश्रिता भवन्ति चेत् , भङ्गुरासकं नाम भवति ॥ ५.६९॥ ... ३१ लीलाधर-ed. ३२ कुटच ed. ३३ मधुकरकेकाराव ed. ३४ उपान्त्या mss; एउपान्त्यः ed. १५ एकनरो ed. ३६ क्षपितया ed. ३७ यदपि विगलित mss. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy